Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 773
ऋषिः - अग्निश्चाक्षुषः देवता - पवमानः सोमः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम -
4

प꣡व꣢ते हर्य꣣तो हरि꣢꣯रति ह्वराꣳसि रꣳह्या । अभ्यर्ष स्तोतृभ्यो वीरवद्यशः ॥७७३॥

स्वर सहित पद पाठ

प꣡व꣢꣯ते । ह꣣र्य꣢तः । ह꣡रिः꣢꣯ । अ꣡त्ति꣢꣯ । ह्व꣡रा꣢꣯ꣳसि । र꣡ꣳह्या꣢꣯ । अ꣣भि꣢ । अ꣣र्ष । स्तोतृ꣡भ्यः꣢ । वी꣣र꣡व꣢त् । य꣡शः꣢꣯ ॥७७३॥


स्वर रहित मन्त्र

पवते हर्यतो हरिरति ह्वराꣳसि रꣳह्या । अभ्यर्ष स्तोतृभ्यो वीरवद्यशः ॥७७३॥


स्वर रहित पद पाठ

पवते । हर्यतः । हरिः । अत्ति । ह्वराꣳसि । रꣳह्या । अभि । अर्ष । स्तोतृभ्यः । वीरवत् । यशः ॥७७३॥

सामवेद - मन्त्र संख्या : 773
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 22; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 6; सूक्त » 4; मन्त्र » 2
Acknowledgment

पदार्थः -
(हर्यतः) कमनीयः (हरिः) अज्ञानपापादीनां हर्ता जगदीश्वरः (रंह्या) वेगेन (ह्वरांसि अति) कौटिल्यानि अतिगमय्य। [ह्वृ कौटिल्ये, सर्वधातुभ्योऽसुन् उ० ४।१९०।] (पवते) उपासकान् पुनाति। हे जगदीश्वर !त्वम् (स्तोतृभ्यः) स्तुतिपरायणेभ्यः उपासकेभ्यः (वीरवत्) वीरभावोपेतम् (यशः) कीर्तिम् (अभ्यर्ष)प्रापय ॥२॥

भावार्थः - परमात्मोपासका जना दुर्गुणदुर्व्यसनदुःखपापकौटिल्यादिभ्यो मुक्ता वीर्योत्साहयुक्ताः सन्तः पवित्रं जीवनं यापयन्ति ॥२॥

इस भाष्य को एडिट करें
Top