Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 775
ऋषिः - जमदग्निर्भार्गवः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
प꣡व꣢स्व वा꣣चो꣡ अ꣢ग्रि꣣यः꣡ सोम꣢꣯ चि꣣त्रा꣡भि꣢रू꣣ति꣡भिः꣢ । अ꣣भि꣡ विश्वा꣢꣯नि꣣ का꣡व्या꣢ ॥७७५॥
स्वर सहित पद पाठप꣡व꣢꣯स्व । वा꣣चः꣢ । अ꣣ग्रियः꣢ । सो꣡म꣢꣯ । चि꣣त्रा꣡भिः꣢ । ऊति꣡भिः꣢ । अ꣣भि꣢ । वि꣡श्वा꣢꣯नि । का꣡व्या꣢꣯ ॥७७५॥
स्वर रहित मन्त्र
पवस्व वाचो अग्रियः सोम चित्राभिरूतिभिः । अभि विश्वानि काव्या ॥७७५॥
स्वर रहित पद पाठ
पवस्व । वाचः । अग्रियः । सोम । चित्राभिः । ऊतिभिः । अभि । विश्वानि । काव्या ॥७७५॥
सामवेद - मन्त्र संख्या : 775
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 1; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 1; सूक्त » 1; मन्त्र » 1
Acknowledgment
विषयः - तत्रादौ सोमं जगदीश्वरं प्रार्थयते।
पदार्थः -
हे (सोम) सर्वोत्पादक, सर्वप्रेरक, सर्वैश्वर्यवन्, रसागार, चन्द्रवदाह्लादक जगदीश्वर ! अस्माकम् (वाचः) जिह्वायाः, (अग्रियः) अग्रेभवः त्वम्। [अग्रशब्दाद् ‘घच्छौ च’। अ० ४।४।११७ इति भवार्थे घः प्रत्ययः।] (चित्राभिः) अद्भुताभिः (ऊतिभिः)रक्षाभिः सह (पवस्व) अस्मान् पुनीहि। त्वम् (विश्वानि) सर्वाणि (काव्या) वेदकाव्यानि (अभि)अभिव्याप्नोषि। तथा चोक्तम्—‘यस्तन्न वेद॒ किमृ॒चा क॑रिष्यति॒ य इत् तद्वि॒दुस्त इ॒मे समा॑सते (ऋ० १।१६४।३९)’ इति ॥१॥
भावार्थः - यं जगदीश्वरो रक्षति तस्य बालमपि वक्रं कर्त्तुं कोऽपि न शक्नोति ॥१॥
टिप्पणीः -
१. ऋ० ९।६२।२५।