Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 776
ऋषिः - जमदग्निर्भार्गवः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
7

त्व꣡ꣳ स꣢मु꣣द्रि꣡या꣢ अ꣣पो꣢ऽग्रि꣣यो꣡ वाच꣢꣯ ई꣣र꣡य꣢न् । प꣡व꣢स्व विश्वचर्षणे ॥७७६॥

स्वर सहित पद पाठ

त्वम् । स꣣मुद्रि꣡याः꣢ । स꣣म् । उद्रि꣡याः꣢ । अ꣣पः꣢ । अ꣣ग्रि꣢यः । वा꣡चः꣢꣯ । ई꣣र꣡य꣢न् । प꣡व꣢꣯स्व । वि꣣श्वचर्षणे । विश्व । चर्षणे ॥७७६॥


स्वर रहित मन्त्र

त्वꣳ समुद्रिया अपोऽग्रियो वाच ईरयन् । पवस्व विश्वचर्षणे ॥७७६॥


स्वर रहित पद पाठ

त्वम् । समुद्रियाः । सम् । उद्रियाः । अपः । अग्रियः । वाचः । ईरयन् । पवस्व । विश्वचर्षणे । विश्व । चर्षणे ॥७७६॥

सामवेद - मन्त्र संख्या : 776
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 1; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थः -
हे (विश्वचर्षणे) विश्वद्रष्टः, विश्वेषां मनुष्याणां स्वामिन् वा जगदीश्वर ! (वाचः) उपासकानां वाण्याः (अग्रियः)अग्रेभवः (त्वम्) पवित्रकर्ता (समुद्रियाः) समुद्रे आनन्दसागरे भवाः। [समुद्राभ्राद् घः अ० ४।४।११ इति भवार्थे घः प्रत्ययः।] (अपः) रससन्ततीः (ईरयन्) अस्मान् प्रति गमयन्। [ईर क्षेपे चुरादिः, यद्वा ईर गतौ कम्पने च अदादिः, ण्यन्तः।] अस्मान् (पवस्व) पुनीहि ॥२॥

भावार्थः - परमेश्वरस्य स्तुतिर्निष्फला न जायते, प्रत्युत स स्वोपासकान् आनन्दरसेन सरसान् पवित्रांश्च करोति ॥२॥

इस भाष्य को एडिट करें
Top