Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 785
ऋषिः - भृगुर्वारुणिर्जमदग्निर्भार्गवो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
6
य꣢द꣣द्भिः꣡ प꣢रिषि꣣च्य꣡से꣢ मर्मृ꣣ज्य꣡मा꣢न आ꣣यु꣡भिः꣢ । द्रो꣡णे꣢ स꣣ध꣡स्थ꣢मश्नुषे ॥७८५॥
स्वर सहित पद पाठयत् । अ꣡द्भिः꣢ । प꣣रिषिच्य꣡से꣢ । प꣣रि । सिच्य꣡से꣢ । म꣣र्मृज्य꣡मा꣢नः । आ꣣यु꣡भिः꣢ । द्रो꣡णे꣢꣯ । स꣣ध꣡स्थ꣢म् । स꣣ध꣢ । स्थ꣣म् । अश्नुषे ॥७८५॥
स्वर रहित मन्त्र
यदद्भिः परिषिच्यसे मर्मृज्यमान आयुभिः । द्रोणे सधस्थमश्नुषे ॥७८५॥
स्वर रहित पद पाठ
यत् । अद्भिः । परिषिच्यसे । परि । सिच्यसे । मर्मृज्यमानः । आयुभिः । द्रोणे । सधस्थम् । सध । स्थम् । अश्नुषे ॥७८५॥
सामवेद - मन्त्र संख्या : 785
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 1; सूक्त » 4; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 1; सूक्त » 4; मन्त्र » 2
Acknowledgment
विषयः - अथ पुनरपि जगदीश्वरो नरेश्वरश्च वर्ण्यते।
पदार्थः -
प्रथमः—जगदीश्वरपक्षे। हे जगदीश्वर ! (यत्) यदा (आयुभिः) उपासकैः मनुष्यैः। [आयुरिति मनुष्यनाम। निघं० २।३।] (मर्मृज्यमानः) भूयोभूयोऽतिशयेन सात्त्विकैर्भावैरलङ्क्रियमाणः त्वम् (अद्भिः) भक्तिरसैः (परिषिच्यसे) आर्द्रीक्रियसे, तदा (द्रोणे) हृदयरूपे द्रोणकलशे (सधस्थम्) स्थानम् (अश्नुषे) प्राप्नोषि। [अशूङ् व्याप्तौ संघाते च, स्वादिः] ॥ द्वितीयः—नरेश्वरपक्षे। हे नरेश्वर ! (यत्) यदा (आयुभिः) राष्ट्रवासिभिः प्रजाजनैः (मर्मृज्यमानः) माल्यादिभिरलङ्क्रियमाणः त्वम् (अद्भिः) अभिषेकजलैः (परिषिच्यसे) आर्द्रीकियसे, तदा (द्रोणे) द्रुममये सिंहासने (सधस्थम्) स्थानम् (अश्नुषे) प्राप्नोषि ॥२॥ अत्र श्लेषालङ्कारः। सोमौषधिपक्षेऽप्यर्थो योजनीयः ॥२॥
भावार्थः - यथा याज्ञिकैः सोमौषधिरसोऽद्भिः सह द्रोणकलशे परिषिच्यते, यथा वा प्रजाजनैः कश्चित् सुयोग्यो जनो राजपदेऽभिषिच्यते तथैव स्तोतृभिः परमेश्वरो भक्तिरसैर्हृदयेऽभिषेचनीयः ॥२॥
टिप्पणीः -
१. ऋ० ९।६५।६ ‘मृ॒ज्यमा॑नो॒ गभ॑स्त्योः। द्रुणा॑’ इति पाठः।