Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 787
ऋषिः - अहमीयुराङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

प꣡व꣢मानस्य ते व꣣यं꣢ प꣣वि꣡त्र꣢मभ्युन्द꣣तः꣢ । स꣣खित्व꣡मा वृ꣢꣯णीमहे ॥७८७॥

स्वर सहित पद पाठ

प꣡व꣢꣯मानस्य । ते꣣ । वय꣢म् । प꣣वि꣡त्र꣢म् । अ꣣भ्युन्द꣢तः । अ꣣भि । उन्दतः꣢ । स꣣खित्व꣢म् । स꣣ । खित्व꣢म् । आ । वृ꣣णीमहे ॥७८७॥


स्वर रहित मन्त्र

पवमानस्य ते वयं पवित्रमभ्युन्दतः । सखित्वमा वृणीमहे ॥७८७॥


स्वर रहित पद पाठ

पवमानस्य । ते । वयम् । पवित्रम् । अभ्युन्दतः । अभि । उन्दतः । सखित्वम् । स । खित्वम् । आ । वृणीमहे ॥७८७॥

सामवेद - मन्त्र संख्या : 787
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 5; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 1; सूक्त » 5; मन्त्र » 1
Acknowledgment

पदार्थः -
हे सोम ज्ञानप्रेरक परमात्मन् आचार्य वा ! (पवमानस्य) हृदयस्य पवित्रतां सम्पादयतः, (पवित्रम्) पवित्रीभूतं हृदयम् (अभ्युन्दतः) आनन्दरसेन विद्यारसेन वा क्लेदयतः (ते) तव (सखित्वम्) सख्यम्, वयम् (आ वृणीमहे) स्वीकुर्महे ॥१॥

भावार्थः - परमेश्वर उपासकानामाचार्यश्च शिष्याणां हृदयं पावयित्वा तत्रानन्दरसं विद्यारसं च सिञ्चतः ॥१॥

इस भाष्य को एडिट करें
Top