Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 790
ऋषिः - मेधातिथिः काण्वः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
6

अ꣣ग्निं꣢ दू꣣तं꣡ वृ꣢णीमहे꣣ हो꣡ता꣢रं वि꣣श्व꣡वे꣢दसम् । अ꣣स्य꣢ य꣣ज्ञ꣡स्य꣢ सु꣣क्र꣡तु꣢म् ॥७९०॥

स्वर सहित पद पाठ

अ꣣ग्नि꣢म् । दू꣣त꣢म् । वृ꣣णीमहे । हो꣡ता꣢꣯रम् । वि꣣श्व꣡वे꣢दसम् । वि꣣श्व꣢ । वे꣣दसम् । अस्य꣢ । य꣣ज्ञ꣡स्य꣢ । सु꣣क्र꣡तु꣢म् । सु꣣ । क्र꣡तु꣢म् ॥७९०॥


स्वर रहित मन्त्र

अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतुम् ॥७९०॥


स्वर रहित पद पाठ

अग्निम् । दूतम् । वृणीमहे । होतारम् । विश्ववेदसम् । विश्व । वेदसम् । अस्य । यज्ञस्य । सुक्रतुम् । सु । क्रतुम् ॥७९०॥

सामवेद - मन्त्र संख्या : 790
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 6; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 2; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थः -
प्रथमः—आचार्यपक्षे। वयम् (होतारम्) विद्यायाः आचारस्य च दातारम्, (विश्ववेदसम्) सर्वस्य वाङ्मयस्य वेत्तारम्, (अस्य) अनुष्ठीयमानस्य एतस्य (यज्ञस्य) विद्यायज्ञस्य (सुक्रतुम्) सुकर्तारम्, (दूतम्) शिष्यजनस्य दोषादीनाम् उपतापकम्। [टुदु उपतापे, दुनोति उपतपति दुर्गुणदुर्व्यसनप्रमादालस्यदुःखादीनि यः तम्।] (अग्निम्) तेजस्विनं कर्मनिष्ठम् अग्रनेतारम् आचार्यम् (वृणीमहे) गुरुत्वेन स्वीकुर्महे ॥ द्वितीयः—नृपतिपक्षे। वयम् (होतारम्) सुराज्यव्यवस्थया प्रजाभ्यः सुखदातारं राजदेयकरस्य च आदातारम्। [हु दानादनयोः, आदाने चेत्येके।] (विश्ववेदसम्) विश्वस्य सकलस्य राजनीतिविज्ञानस्य वेत्तारम्, (अस्य) अनुष्ठीयमानस्य एतस्य (यज्ञस्य) राष्ट्रयज्ञस्य (सुक्रतुम्) सुकर्तारम् (दूतम्) शत्रूणां भ्रष्टाचारिणां च सन्तापकम् (अग्निम्) अग्रणीं कर्मठं सुयोग्यं जनम् (वृणीमहे) प्रजामध्याद् नृपतित्वेन स्वीकुर्महे ॥ तृतीयः—भौतिकाग्निपक्षे। वयं शिल्पविद्यावेत्तारो विद्वांसः (होतारम्) यानेषु यन्त्रेषु च वेगादिगुणदातारम्, (विश्ववेदसम्) विश्वानि सुखसाधनानि विद्यन्ते प्राप्यन्ते यस्मात् तम्, (अस्य) अनुष्ठीयमानस्य एतस्य (यज्ञस्य) शिल्पयज्ञस्य (सुक्रतुम्) सुसम्पादनसाधनभूतम्, (दूतम्) यो दावयति गमयति यन्त्रकलाः तम् (अग्निम्) विद्युतम् (वृणीमहे) शिल्पक्रियासु प्रयुञ्ज्महे ॥१॥१ अत्र श्लेषालङ्कारः ॥१॥

भावार्थः - मनुष्यैर्जगदीश्वरोपासनया सत्प्रेरणां प्राप्य सुयोग्यं सुशिक्षकमाचार्यं वृत्वा सर्वा विद्या अधीत्य सदाचारमङ्गीकृत्य विद्युद्विद्यया शिल्पविद्योन्नत्या भूजलान्तरिक्षयानानि विविधानि यन्त्राणि च निर्माय राष्ट्रोन्नतिः संसाधनीया ॥१॥

इस भाष्य को एडिट करें
Top