Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 793
ऋषिः - मेधातिथिः काण्वः देवता - मित्रावरुणौ छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
8

मि꣣त्रं꣢ व꣣य꣡ꣳ ह꣢वामहे꣣ व꣡रु꣢ण꣣ꣳ सो꣡म꣢पीतये । या꣢ जा꣣ता꣢ पू꣣त꣡द꣢क्षसा ॥७९३॥

स्वर सहित पद पाठ

मि꣣त्र꣢म् । मि꣣ । त्र꣢म् । व꣣य꣢म् । ह꣣वामहे । व꣡रु꣢꣯णम् । सो꣡म꣢꣯पीतये । सो꣡म꣢꣯ । पी꣣तये । या꣢ । जा꣡ता꣢ । पू꣣त꣡द꣢क्षसा । पू꣣त꣢ । द꣣क्षसा ॥७९३॥


स्वर रहित मन्त्र

मित्रं वयꣳ हवामहे वरुणꣳ सोमपीतये । या जाता पूतदक्षसा ॥७९३॥


स्वर रहित पद पाठ

मित्रम् । मि । त्रम् । वयम् । हवामहे । वरुणम् । सोमपीतये । सोम । पीतये । या । जाता । पूतदक्षसा । पूत । दक्षसा ॥७९३॥

सामवेद - मन्त्र संख्या : 793
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 2; सूक्त » 2; मन्त्र » 1
Acknowledgment

पदार्थः -
(वयम्) जनाः (सोमपीतये) यशोरक्षणाय। [यशो वै सोमः श० ४।२।४।९।] (मित्रम्) बहिरभ्यन्तरस्थं जीवनहेतुं प्राणं, ब्रह्मबलं वा, (वरुणम्) ऊर्ध्वगमनबलहेतुम् उदानं, क्षत्रबलं वा। [प्राणोदानौ वै मित्रावरुणौ श० १।८।३।१२, ब्रह्मैव मित्रः। श० ४।१।४।१, क्षत्रं वै वरुणः। श० २।५।२।६।] (हवामहे) आह्वयामः, गृह्णीमः, (या) यौ (पूतदक्षसा) पूतदक्षसौ पवित्रबलौ, बलस्य पवित्रकर्तारौ वा (जाता) जातौ स्तः। [सर्वत्र, ‘सुपां सुलुक्०’ अ० ७।१।३९ इति विभक्तेराकारादेशः।] ॥१॥१

भावार्थः - शरीरे प्राणनक्रियाहतुं प्राणम् ऊर्ध्वगमनहेतुमुदानं च संवर्द्ध्य, राष्ट्रे च ब्रह्मबलं क्षत्रबलं च संवर्द्ध्य शरीरस्य राष्ट्रस्य च स्वास्थ्यं सर्वे जना उन्नयन्तु ॥१॥

इस भाष्य को एडिट करें
Top