Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 794
ऋषिः - मेधातिथिः काण्वः देवता - मित्रावरुणौ छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

ऋ꣣ते꣢न꣣ या꣡वृ꣢ता꣣वृ꣡धा꣢वृ꣣त꣢स्य꣣ ज्यो꣡ति꣢ष꣣स्प꣡ती꣢ । ता꣢ मि꣣त्रा꣡वरु꣢꣯णा हुवे ॥७९४॥

स्वर सहित पद पाठ

ऋते꣡न꣢ । यौ । ऋ꣣तावृ꣡धौ꣢ । ऋ꣣त । वृ꣡धौ꣢꣯ । ऋ꣣त꣡स्य꣢ । ज्यो꣡ति꣢꣯षः । पती꣢꣯इ꣡ति꣢ । ता । मि꣡त्रा꣢ । मि꣡ । त्रा꣢ । व꣡रु꣢꣯णा । हु꣣वे ॥७९४॥


स्वर रहित मन्त्र

ऋतेन यावृतावृधावृतस्य ज्योतिषस्पती । ता मित्रावरुणा हुवे ॥७९४॥


स्वर रहित पद पाठ

ऋतेन । यौ । ऋतावृधौ । ऋत । वृधौ । ऋतस्य । ज्योतिषः । पतीइति । ता । मित्रा । मि । त्रा । वरुणा । हुवे ॥७९४॥

सामवेद - मन्त्र संख्या : 794
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 2; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थः -
प्रथमः—प्राणोदानपक्षे। (यौ ऋतेन) प्राणनोदाननरूपेण सत्यव्यापारेण (ऋतावृधौ) ऋतयोः सत्यक्रियायुक्तयोः मनोमयविज्ञानमयकोशयोः वर्द्धकौ, (ऋतस्य) ऋतम्भरायाः प्रज्ञायाः (ज्योतिषः) ज्योतिष्मत्याः वृत्तेश्च (पती) रक्षकौ स्तः (ता) तौ (मित्रावरुणा) मित्रावरुणौ प्राणोदानौ, अहम् (हुवे) आह्वयामि, स्वस्थरूपेण शरीरे प्रवर्तयामि ॥ द्वितीयः—ब्रह्मक्षत्रपक्षे। (यौ ऋतेन) सत्येन ज्ञानेन सत्येन क्षात्रबलेन च (ऋतावृधौ) सत्यस्य राष्ट्रस्य वर्धकौ, (ऋतस्य ज्योतिषः) सत्यरूपस्य प्रकाशस्य (पती) रक्षकौ स्तः, (ता) तौ (मित्रावरुणा) मित्रावरुणौ ब्राह्मणक्षत्रियौ, अहम् (हुवे) आह्वयामि ॥२॥३

भावार्थः - यथा प्राणोदानाभ्यां देहस्य स्वास्थ्यं तथा ब्राह्मणक्षत्रियाभ्यां राष्ट्रस्य स्वास्थ्यं चिरस्थायि जायते ॥२॥

इस भाष्य को एडिट करें
Top