Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 80
ऋषिः - पायुर्भारद्वाजः देवता - अग्निः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - आग्नेयं काण्डम्
10

स꣣ना꣡द꣢ग्ने मृणसि यातु꣣धा꣢ना꣣न्न꣢ त्वा꣣ र꣡क्षा꣢ꣳसि꣣ पृ꣡त꣢नासु जिग्युः । अ꣡नु꣢ दह स꣣ह꣡मू꣢रान्क꣣या꣢दो꣣ मा꣡ ते꣢ हे꣣त्या꣡ मु꣢क्षत꣣ दै꣡व्या꣢याः ॥८०॥

स्वर सहित पद पाठ

स꣣ना꣢त् । अ꣣ग्ने । मृणसि । यातुधा꣡ना꣢न् । या꣣तु । धा꣡ना꣢꣯न् । न । त्वा꣣ । र꣡क्षाँ꣢꣯सि । पृ꣡त꣢꣯नासु । जि꣣ग्युः । अ꣡नु꣢꣯ । द꣣ह । सह꣡मू꣢रान् । स꣣ह꣢ । मू꣣रान् । क꣣या꣡दः꣢ । क꣣य । अ꣡दः꣢꣯ । मा । ते꣣ । हेत्याः꣢ । मु꣣क्षत । दै꣡व्या꣢꣯याः ॥८०॥


स्वर रहित मन्त्र

सनादग्ने मृणसि यातुधानान्न त्वा रक्षाꣳसि पृतनासु जिग्युः । अनु दह सहमूरान्कयादो मा ते हेत्या मुक्षत दैव्यायाः ॥८०॥


स्वर रहित पद पाठ

सनात् । अग्ने । मृणसि । यातुधानान् । यातु । धानान् । न । त्वा । रक्षाँसि । पृतनासु । जिग्युः । अनु । दह । सहमूरान् । सह । मूरान् । कयादः । कय । अदः । मा । ते । हेत्याः । मुक्षत । दैव्यायाः ॥८०॥

सामवेद - मन्त्र संख्या : 80
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 8;
Acknowledgment

पदार्थः -
हे (अग्ने) अग्रणीः परमात्मन् शत्रूच्छेदक राजन् वा ! त्वम् (सनात्) चिरकालात्। सनादिति चिरम् इत्यर्थे व्याख्यातो निरुक्ते १२।३४। (यातुधानान्२) यातनाधायकान् घातपातहिंसोपद्रवादीन् दोषान् दुष्टजनान् वा (मृणसि) मर्दयसि, विनाशयसि। मृण हिंसायाम्, तुदादिः। (रक्षांसि) कामक्रोधलोभादयो वञ्चकलुण्ठकतस्करादयो वा राक्षसाः (त्वा) त्वाम् (पृतनासु) आभ्यन्तरेषु बाह्येषु च देवासुरसंग्रामेषु। पृतनेति संग्रामनाम। निघं० २।१७। (न जिग्युः) न जेतुं शक्नुवन्ति। जि जये, लडर्थे लिट्। ‘सन् लिटोर्जेः।’ अ० ७।३।५७ इति कुत्वम्। त्वम् (कयादः३) कं सुखं यातयन्ति विनाशयन्तीति तान् दुर्विचारान् दुष्टजनान् वा। कम् इति सुखनाम। निरु–० २।१४। यातयतिः हिंसाकर्मा। निघं० २।१९। (सहमूरान्४) समूलान्। रलयोरभेदः। (अनुदह) अनुक्रमेण भस्मसात् कुरु। ते दुष्टभावा दुष्टजनाश्च (ते) तव (दैव्यायाः) देवेभ्यो विद्वद्भ्यो हिता दैव्या तस्याः। देवशब्दाद् हितार्थे देवाद् ययञौ अ० ४।१।८५ वा० इति यञ् प्रत्ययः। (हेत्याः५) दण्डशक्तेः शस्त्रास्त्रसमूहाच्च। हेतिः वज्रनाम। निघं० २।२०। (मा मुक्षत) मुक्ता मा भूवन्। मुचोऽकर्मकस्य लुङि, अडभावे, प्रथमबहुवचने रूपम् ॥८॥ अत्र अर्थश्लेषालङ्कारः, वीरो रसः ॥८॥

भावार्थः - हे धर्मपालक विधर्मविध्वंसक सद्गुणप्रसारक जगदीश्वर राजन् वा ! तव प्रशंसका वयं यदा यदा मानसे बाह्ये वा देवासुरसंग्रामे कामक्रोधलोभमोहादिभिर्वञ्चक-लुण्ठक-हिंसक-तस्कर-मद्यप-व्यभिचारक-भ्रष्टाचारकप्रभृतिभिर्दुष्टजनैश्च पीड्यामहे तदा तदाऽस्माकं सहायको भूत्वा तान् समूलघातं हत्वाऽस्मान् रक्ष। दुर्जनानां च यदि हृदयपरिवर्तनं संभवेत् तदा तेषां राक्षसत्वं विनाश्य तान् शुद्धान्तःकरणान् कुरु, येन जगति सज्जनानां वृद्ध्या सर्वत्र सुखसौहार्दधारा प्रवहेत् ॥८॥ अत्र परमात्माग्नेर्जागरणवर्णनाद्, अग्नि-पूषन्-जातवेदोनामभिः परमात्मगुणवर्णनात्, तत्क्रियमाणराक्षसविनाशवर्णनाद्, मनुष्याणां तत्पूजार्थं प्रेरणाच्चैतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह सङ्गतिरस्ति। इति प्रथमे प्रपाठके द्वितीयार्धे तृतीया दशतिः ॥ इति प्रथमेऽध्यायेऽष्टमः खण्डः ॥

इस भाष्य को एडिट करें
Top