Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 815
ऋषिः - अहमीयुराङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
3
य꣢स्ते꣣ म꣢दो꣣ व꣡रे꣢ण्य꣣स्ते꣡ना꣢ पव꣣स्वा꣡न्ध꣢सा । दे꣣वावी꣡र꣢घशꣳस꣣हा꣢ ॥८१५॥
स्वर सहित पद पाठयः꣢ । ते꣣ । म꣡दः꣢꣯ । व꣡रे꣢꣯ण्यः । ते꣡न꣢꣯ । प꣣वस्व । अ꣡न्ध꣢꣯सा । दे꣢वावीः꣣ । दे꣢व । अवीः꣢ । अ꣣घशꣳसहा꣢ । अ꣣घशꣳस । हा꣢ ॥८१५॥
स्वर रहित मन्त्र
यस्ते मदो वरेण्यस्तेना पवस्वान्धसा । देवावीरघशꣳसहा ॥८१५॥
स्वर रहित पद पाठ
यः । ते । मदः । वरेण्यः । तेन । पवस्व । अन्धसा । देवावीः । देव । अवीः । अघशꣳसहा । अघशꣳस । हा ॥८१५॥
सामवेद - मन्त्र संख्या : 815
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 15; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 5; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 15; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 5; सूक्त » 1; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके ४७० क्रमाङ्के परमात्मानन्दरसविषये व्याख्याता। अत्र परमेश्वर आचार्यश्च प्रार्थ्यते।
पदार्थः -
हे पवमान सोम पवित्रकर्तः आनन्दरसागार परमात्मन् ज्ञानरसागार आचार्य वा ! (यः ते) यः तव (वरेण्यः) वरणीयः (मदः) उत्साहप्रदः आनन्दरसो ज्ञानरसो वा अस्ति, (तेन अन्धसा) तेन आनन्दरसेन ज्ञानरसेन वा (पवस्व) उपासकान् शिष्यान् वा अस्मान् पुनीहि। किञ्च, त्वम् (देवावीः) दिव्यगुणानां प्रापयिता, (अघशंसहा) पापप्रशंसकानां दुर्विचाराणां हन्ता च भवेति शेषः ॥१॥
भावार्थः - यथा जगदीश्वर उपासकेभ्य आनन्दरसं प्रयच्छति, दिव्यगुणान् प्रापयति, तेषां दुर्विचारांश्च हन्ति तथैव शिष्येभ्यो विद्याप्रदानं, तेषामानन्दवर्धनं, दोषाणां हननं, तेषु सद्गुणारोपणं च गुरूणां कर्त्तव्यमस्ति ॥१॥
टिप्पणीः -
१. ऋ० ९।६१।१९, साम० ४७०।