Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 816
ऋषिः - अहमीयुराङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
ज꣡घ्नि꣢र्वृ꣣त्र꣡म꣢मि꣣त्रि꣢य꣣ꣳ स꣢स्नि꣣र्वा꣡जं꣢ दि꣣वे꣡दि꣢वे । गो꣡षा꣢तिरश्व꣣सा꣡ अ꣢सि ॥८१६॥
स्वर सहित पद पाठज꣡घ्निः꣢꣯ । वृ꣣त्र꣢म् । अ꣣मित्रि꣡य꣢म् । अ꣣ । मित्रि꣡य꣢म् । स꣡स्निः꣢꣯ । वा꣡ज꣢꣯म् । दि꣣वे꣡दि꣢वे । दि꣣वे꣡ । दि꣣वे । गो꣡षा꣢꣯तिः । गो । सा꣣तिः । अश्वसाः꣢ । अ꣣श्व । साः꣢ । अ꣣सि ॥८१६॥
स्वर रहित मन्त्र
जघ्निर्वृत्रममित्रियꣳ सस्निर्वाजं दिवेदिवे । गोषातिरश्वसा असि ॥८१६॥
स्वर रहित पद पाठ
जघ्निः । वृत्रम् । अमित्रियम् । अ । मित्रियम् । सस्निः । वाजम् । दिवेदिवे । दिवे । दिवे । गोषातिः । गो । सातिः । अश्वसाः । अश्व । साः । असि ॥८१६॥
सामवेद - मन्त्र संख्या : 816
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 15; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 5; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 15; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 5; सूक्त » 1; मन्त्र » 2
Acknowledgment
विषयः - अथ परमेश्वरमाचार्यं च वर्णयति।
पदार्थः -
हे पवमान सोम पवित्रकर्त्तः सद्बुद्धिप्रेरक परमात्मन् आचार्य वा ! त्वम् (अमित्रियम्) अमित्रादागतम् (वृत्रम्) पापम् (जघ्निः) हन्ता, (दिवेदिवे) प्रतिदिनम् (वाजम्) बलम् (सस्निः) शोधकः। [जघ्निः, सस्निः इत्यत्र हन् हिंसागत्योः ष्णा शौचे ण्यन्तः इत्यनयोः ‘आगमहनजनः किकिनौ लिट् च।’अ० ३।२।१७१ इत्यनेन किन् प्रत्ययः लिड्वद्भावश्च।] (गोषातिः) गवां भूमीनां धेनूनां वाचां वा दाता। [गवां सातिः प्राप्तिः यस्मात् स गोषातिः।] (अश्वसाः) अश्वानां, प्राणानां वा दाता च। [अश्वान् सनोतीति अश्वसाः। अश्वपूर्वात् सनोतेः ‘जनसनखनक्रमगमो विट्’। अ० ३।२।६७ इति विट् प्रत्ययः ‘विड्वनोरनुनासिकस्यात्’ अ० ६।४।४१ इत्यनुनासिकस्य आत्वम्।] (असि) विद्यसे ॥२॥
भावार्थः - जगदीश्वर इव गुरुरपि पापादीनां हन्ताऽऽत्मबलमनोबलबुद्धिबल- चित्तबलादीनां पवित्रयिता, निखिलस्य वेदवाङ्मयस्याध्यापयिता, प्राणानां परिष्कर्त्ता च भवेत् ॥२॥
टिप्पणीः -
१. ऋ० ९।६१।२०, ‘गो॒षा उ॑ अश्व॒सा अ॑सि’ इति तृतीयः पादः।