Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 826
ऋषिः - श्रुतकक्षः सुकक्षो वा आङ्गिरसः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
6
मो꣢꣫ षु ब्र꣣ह्मे꣡व꣢ तदिन्द्र꣣यु꣡र्भुवो꣢꣯ वाजानां पते । म꣡त्स्वा꣢ सु꣣त꣢स्य꣣ गो꣡म꣢तः ॥८२६॥
स्वर सहित पद पाठमा । उ꣣ । सु꣢ । ब्र꣣ह्मा꣢ । इ꣣व । तन्द्रयुः꣢ । भु꣡वः꣢꣯ । वा꣣जानाम् । पते । म꣡त्स्व꣢꣯ । सु꣣त꣡स्य꣢ । गो꣡म꣢꣯तः ॥८२६॥
स्वर रहित मन्त्र
मो षु ब्रह्मेव तदिन्द्रयुर्भुवो वाजानां पते । मत्स्वा सुतस्य गोमतः ॥८२६॥
स्वर रहित पद पाठ
मा । उ । सु । ब्रह्मा । इव । तन्द्रयुः । भुवः । वाजानाम् । पते । मत्स्व । सुतस्य । गोमतः ॥८२६॥
सामवेद - मन्त्र संख्या : 826
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 18; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 6; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 18; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 6; सूक्त » 1; मन्त्र » 3
Acknowledgment
विषयः - अथ पुनरन्तरात्मानमुद्बोधयति।
पदार्थः -
हे (वाजानां पते) बलानामधिपते मदीय अन्तरात्मन् ! (ब्रह्मा इव) यज्ञस्य ब्रह्मा इव उच्चपदे विद्यमानः त्वम् (मा उ सु) न खलु कदापि (तन्द्रयुः) आलस्यकामः (भुवः) भव। अपि च, (गोमतः सुतस्य) गोदुग्धयुक्तेन सोमरसेन, ज्ञानकर्मयुक्तेन उपासनारसेन इत्यर्थः। [तृतीयार्थे षष्ठी।] (मत्स्व) आनन्दं लभस्व। [मदी हर्षग्लेपनयोः भ्वादिः, आत्मनेपदं छान्दसम्] ॥३॥ अत्रोपमालङ्कारः ॥३॥
भावार्थः - मनुष्यैः कदापि प्रमादो न कार्यः प्रत्युत जागरूकैर्भूत्वा सर्वेषु शुभकर्मसूत्साहः सदा धारणीयः ॥३॥
टिप्पणीः -
१. ऋ० ८।९२।३०, अथ० २०।६०।३।