Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 827
ऋषिः - जेता माधुच्छन्दसः
देवता - इन्द्रः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
6
इ꣢न्द्रं꣣ वि꣡श्वा꣢ अवीवृधन्त्समु꣣द्र꣡व्य꣢चसं꣣ गि꣡रः꣢ । र꣣थी꣡त꣢मꣳ र꣣थी꣢नां꣣ वा꣡जा꣢ना꣣ꣳ स꣡त्प꣢तिं꣣ प꣡ति꣢म् ॥८२७॥
स्वर सहित पद पाठइ꣡न्द्र꣢꣯म् । वि꣡श्वाः꣢꣯ । अ꣣वीवृधन् । समुद्र꣡व्य꣢चसम् । स꣣मुद्र꣢ । व्य꣣चसम् । गि꣡रः꣢꣯ । र꣣थी꣡त꣢मम् । र꣣थी꣡ना꣢म् । वा꣡जा꣢꣯नाम् । स꣡त्प꣢꣯तिम् । सत् । प꣣तिम् । प꣡ति꣢꣯म् ॥८२७॥
स्वर रहित मन्त्र
इन्द्रं विश्वा अवीवृधन्त्समुद्रव्यचसं गिरः । रथीतमꣳ रथीनां वाजानाꣳ सत्पतिं पतिम् ॥८२७॥
स्वर रहित पद पाठ
इन्द्रम् । विश्वाः । अवीवृधन् । समुद्रव्यचसम् । समुद्र । व्यचसम् । गिरः । रथीतमम् । रथीनाम् । वाजानाम् । सत्पतिम् । सत् । पतिम् । पतिम् ॥८२७॥
सामवेद - मन्त्र संख्या : 827
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 19; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 6; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 19; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 6; सूक्त » 2; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके ३४३ क्रमाङ्के परमात्मनृपत्योर्विषये व्याख्याता। अत्र जगदीश्वरस्याचार्यस्य च विषयो वर्ण्यते।
पदार्थः -
(विश्वाः) सर्वाः (गिरः) वाचः (समुद्रव्यचसम्) समुद्रवद् अन्तरिक्षवद् वा विशालम्, उदारहृदयमित्यर्थः, (रथीनाम्) रथस्वामिनां मध्ये (रथीतमम्) श्रेष्ठं रथस्वामिनम्, (वाजानाम्) आत्मबलानां विद्याबलानां च (पतिम्) अधीश्वरम्, (सत्पतिम्) सतां जनानां विद्यार्थिनां वा पतिं पालकम् (इन्द्रम्) जगदीश्वरं विद्वांसम् आचार्यं वा (अवीवृधन्) महिम्ना (वर्धयन्ति) ॥१॥२ ‘समुद्रव्यचसम् इन्द्रम्’ इत्यत्र वाचकलुप्तोपमालङ्कारः ॥१॥
भावार्थः - यथा जगदीश्वरो ब्रह्माण्डरथस्य श्रेष्ठः स्वामी वर्तते तथाऽऽचार्यो गुरुकुलरथस्य श्रेष्ठः कुलपतिर्भवति ॥१॥
टिप्पणीः -
१. ऋ० १।११।१, य० १२।५६, १५।६१, १७।६१, साम० ३४३। २. दयानन्दर्षिर्मन्त्रमेतमृग्भाष्ये ईश्वरविजेतृशूरयोर्विषये, यजुर्भाष्ये च १२।५६ इत्यत्र कुमारकुमारीणां कर्त्तव्यविषये, १५।६१ इत्यत्र राजप्रजाविषये, १७।६१ इत्यत्र च जगत्स्रष्टुरीश्वरस्य गुणविषये व्याख्यातवान् ॥