Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 832
ऋषिः - जमदग्निर्भार्गवः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
6

कृ꣣ण्व꣢न्तो꣣ व꣡रि꣢वो꣣ ग꣢वे꣣꣬ऽभ्य꣢꣯र्षन्ति सुष्टु꣣ति꣢म् । इ꣡डा꣢म꣣स्म꣡भ्य꣢ꣳ सं꣣य꣡त꣢म् ॥८३२॥

स्वर सहित पद पाठ

कृ꣣ण्व꣡न्तः꣢ । व꣡रि꣢꣯वः । ग꣡वे꣢꣯ । अ꣡भि꣢ । अ꣣र्षन्ति । सुष्टुति꣢म् । सु꣣ । स्तुति꣢म् । इ꣡डा꣢꣯म् । अ꣣स्म꣡भ्य꣢म् । सं꣣य꣡त꣢म् । स꣣म् । य꣡त꣢꣯म् ॥८३२॥


स्वर रहित मन्त्र

कृण्वन्तो वरिवो गवेऽभ्यर्षन्ति सुष्टुतिम् । इडामस्मभ्यꣳ संयतम् ॥८३२॥


स्वर रहित पद पाठ

कृण्वन्तः । वरिवः । गवे । अभि । अर्षन्ति । सुष्टुतिम् । सु । स्तुतिम् । इडाम् । अस्मभ्यम् । संयतम् । सम् । यतम् ॥८३२॥

सामवेद - मन्त्र संख्या : 832
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 1; सूक्त » 1; मन्त्र » 3
Acknowledgment

पदार्थः -
एते सोमासः तेजस्विनः उपासकाः (गवे) स्वकीयाय जीवात्मने इन्द्रियगणाय च (वरिवः) ऐश्वर्यम् [वरिवः इति धननाम। निघं० २।१०।] किञ्च (अस्मभ्यम्) सखिभ्यो नः (संयतम्) संयमयुक्तां। [संपूर्वात् यम उपरमे धातोः क्विपि स्त्रियां द्वितीयैकवचने रूपम्।] (इडाम्) भद्रां वाचम् [इडा इति वाङ्नाम निघं० १।११।] (कृण्वन्तः) कुर्वन्तः, प्रयुञ्जानाः (सुष्टुतिम्) सुप्रशस्तिम् (अभ्यर्षन्ति) प्राप्नुवन्ति ॥३॥

भावार्थः - उपासकस्यात्ममनोबुद्धिवाक्प्राणेन्द्रियादीनि सर्वाण्यपि दिव्यैश्वर्यमयानि जायन्ते, स चान्यान् प्रति मधुरां भद्रामेव वाचं प्रयुञ्जानः सुप्रशस्तिं लभते ॥३॥

इस भाष्य को एडिट करें
Top