Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 850
ऋषिः - मधुच्छन्दा वैश्वामित्रः देवता - मरुत इन्द्रश्च छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
6

इ꣡न्द्रे꣢ण꣣ स꣡ꣳ हि दृक्ष꣢꣯से संजग्मा꣣नो꣡ अबि꣢꣯भ्युषा । म꣣न्दू꣡ स꣢मा꣣न꣡व꣢र्च्चसा ॥८५०॥

स्वर सहित पद पाठ

इ꣡न्द्रे꣢꣯ण । सम् । हि । दृ꣡क्ष꣢꣯से । सं꣣जग्मानः꣢ । स꣣म् । जग्मानः꣢ । अ꣡बि꣢꣯भ्युषा । अ । बि꣣भ्युषा । मन्दू꣡ इति꣢ । स꣣मान꣡व꣢र्चसा । स꣣मान꣢ । व꣣र्चसा ॥८५०॥


स्वर रहित मन्त्र

इन्द्रेण सꣳ हि दृक्षसे संजग्मानो अबिभ्युषा । मन्दू समानवर्च्चसा ॥८५०॥


स्वर रहित पद पाठ

इन्द्रेण । सम् । हि । दृक्षसे । संजग्मानः । सम् । जग्मानः । अबिभ्युषा । अ । बिभ्युषा । मन्दू इति । समानवर्चसा । समान । वर्चसा ॥८५०॥

सामवेद - मन्त्र संख्या : 850
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 7; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 2; सूक्त » 3; मन्त्र » 1
Acknowledgment

पदार्थः -
हे मरुतां गण प्राणगण ! त्वम् (अबिभ्युषा) निर्भयेन (इन्द्रेण) जीवात्मना (संजग्मानः) संगच्छमानः (संदृक्षसे) संदृश्यसे। [संपूर्वाद् दृश धातोः लडर्थे लेटि अडागमे सिबागमे रूपम्।] युवाम् (मन्दू) आनन्दप्रदौ [मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु, भ्वादिः, ततो बाहुलकादौणादिकः कुः प्रत्ययः।] किञ्च (समानवर्चसा) समानवर्चसौ तुल्यतेजस्कौ स्थः इति) शेषः ॥१॥२ निरुक्ते यास्काचार्येण मन्त्रोऽयमेवं व्याख्यातः—[इन्द्रेण हि सन्दृश्यसे संगच्छमानोऽबिभ्युषा गणेन। मन्दू मदिष्ण युवां स्थः, अपि वा मन्दुना तेनेति स्यात्, समानवर्चसेत्येन व्याख्यातम्। निरु० ४।१२।]

भावार्थः - देहे जीवात्मप्राणयोरुभयोरपि समं महत्त्वम्। प्राणं विना जीवात्मा जीवात्मानं विना च प्राणोऽकिञ्चित्करः खलु ॥१॥

इस भाष्य को एडिट करें
Top