Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 851
ऋषिः - मधुच्छन्दा वैश्वामित्रः
देवता - मरुतः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
आ꣡दह꣢꣯ स्व꣣धा꣢꣫मनु꣣ पु꣡न꣢र्गर्भ꣣त्व꣡मे꣢रि꣣रे꣢ । द꣡धा꣢ना꣣ ना꣡म꣢ य꣣ज्ञि꣡य꣢म् ॥८५१॥
स्वर सहित पद पाठआ꣢त् । अ꣡ह꣢꣯ । स्व꣣धा꣢म् । स्व꣣ । धा꣢म् । अ꣡नु꣢꣯ । पु꣡नः꣢꣯ । ग꣣र्भत्व꣢म् । ए꣣रिरे꣢ । आ꣣ । इरिरे꣢ । द꣡धा꣢꣯नाः । ना꣡म꣢꣯ । य꣣ज्ञि꣡य꣢म् ॥८५१॥
स्वर रहित मन्त्र
आदह स्वधामनु पुनर्गर्भत्वमेरिरे । दधाना नाम यज्ञियम् ॥८५१॥
स्वर रहित पद पाठ
आत् । अह । स्वधाम् । स्व । धाम् । अनु । पुनः । गर्भत्वम् । एरिरे । आ । इरिरे । दधानाः । नाम । यज्ञियम् ॥८५१॥
सामवेद - मन्त्र संख्या : 851
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 7; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 2; सूक्त » 3; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 7; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 2; सूक्त » 3; मन्त्र » 2
Acknowledgment
विषयः - अथ जीवात्मनः पुनर्जन्मविषयमाह।
पदार्थः -
(आत् अह) देहत्यागानन्तरं खलु, सूक्ष्मशरीरसमाविष्टा एते मरुतः प्राणाः पूर्वजन्मकृतकर्मसंस्कारानुसारम् (स्वधाम् अनु) भोगम् अनुलक्ष्य, इन्द्रेण जीवात्मना सहचारिताः (यज्ञियम्) देहयज्ञसंचालनार्हम्। [यज्ञमर्हति इति यज्ञियः, ‘यज्ञर्त्विग्भ्यां घखञौ। अ० ५।१।७१’ इति घः प्रत्ययः।] (नाम) कर्म (दधानाः) धारयन्तः (पुनः) पुर्वजन्मवत् भूयोऽपि (गर्भत्वम्) मातुर्गर्भे स्थितिम् (एरिरे) प्राप्नुवन्ति। [आङ्पूर्वः ईर गतौ कम्पने च अदादिः, लिटि रूपम्] ॥२॥२
भावार्थः - पञ्च प्राणाः, पञ्च ज्ञानेन्द्रियाणि, पञ्च सूक्ष्मभूतानि, मनो बुद्धिश्चेति सप्तदशलिङ्गकं सूक्ष्मशरीरं जीवात्मना सह मृत्योरनन्तरमपि तिष्ठति। पूर्वजन्मकर्मसंस्कारानुसारेण फलानि भोक्तुं सूक्ष्मशरीरेण सह जीवात्मा पुनर्जन्म ग्रहीतुं मातुर्गर्भं प्रविशति ॥२॥
टिप्पणीः -
१. ऋ० १।६।४, अथ० २०।४०।३, ६९।१२ सर्वत्र देवताः मरुतः।