Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 870
ऋषिः - त्रित आप्त्यः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
अ꣣भि꣡ ब्रह्मी꣢꣯रनूषत य꣣ह्वी꣢रृ꣣त꣡स्य꣢ मा꣣त꣡रः꣢ । म꣣र्ज꣡य꣢न्ती꣣र्दिवः꣡ शिशु꣢꣯म् ॥८७०॥
स्वर सहित पद पाठअ꣣भि꣢ । ब्र꣡ह्मीः꣢꣯ । अ꣣नूषत । यह्वीः꣢ । ऋ꣣त꣡स्य꣢ । मा꣣त꣡रः꣢ । म꣣र्ज꣡य꣢न्तीः । दि꣣वः꣢ । शि꣡शु꣢꣯म् ॥८७०॥
स्वर रहित मन्त्र
अभि ब्रह्मीरनूषत यह्वीरृतस्य मातरः । मर्जयन्तीर्दिवः शिशुम् ॥८७०॥
स्वर रहित पद पाठ
अभि । ब्रह्मीः । अनूषत । यह्वीः । ऋतस्य । मातरः । मर्जयन्तीः । दिवः । शिशुम् ॥८७०॥
सामवेद - मन्त्र संख्या : 870
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 14; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 5; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 14; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 5; सूक्त » 1; मन्त्र » 2
Acknowledgment
विषयः - अथ वेदवाग्विषयं चन्द्रविषयं चाह।
पदार्थः -
प्रथमः—वेदवाग्विषयकः। (यह्वीः) यह्व्यः महत्यः। [यह्व इति महतो नामधेयं यातश्च हूतश्च भवति। निरु० ८।८।] (ऋतस्य मातरः२) सत्यज्ञानस्य निर्मात्र्यः, (दिवः शिशुम्) द्योतमानस्य परमात्मनः पुत्रभूतं मानवम् (मर्जयन्तीः) मर्जयन्त्यः शोधयन्त्यः (ब्रह्मीः) ब्रह्म्यः, ब्रह्मणा प्रोक्ताः वेदवाचः (अभि अनूषत) गुणवर्णनेन सर्वान् पदार्थान् अभिष्टुवन्ति ॥ द्वितीयः—चन्द्रविषयकः। (यह्वीः) महत्यः, (ऋतस्य मातरः) वृष्टिजलस्य निर्मात्र्यः। [ऋतमिति उदकनाम। निघं० १।१२।] (मर्जयन्तीः) प्रकाशेन सर्वान् शोधयन्त्यः अलङ्कुर्वत्यो वा (ब्रह्मीः) ब्रह्मणः महतः सूर्यस्य इमाः, सूर्यसम्बन्धिन्यः दीधितयः (दिवः शिशुम्) आकाशस्य शिशुमिव विद्यमानं चन्द्रम् (अभि) अभिलक्ष्य, तं प्रकाशयितुम् (अनूषत) गच्छन्ति। [नवते गतिकर्मा। निघं० २।१४] ॥२॥ अत्र श्लेषालङ्कारः। द्वितीये व्याख्याने ‘दिवः शिशुम्’ इत्यत्र लुप्तोपमम् ॥२॥
भावार्थः - यथा मातरः शिशुमुपगच्छन्ति तथैव वेदवाचः गुणवर्णनद्वारा सर्वान् पदार्थानुपगच्छन्ति, सूर्यरश्मयश्च चन्द्रं प्रकाशयितुं तमुपगच्छन्ति ॥२॥
टिप्पणीः -
१. ऋ० ९।३३।५, ‘म॒र्मृ॒ज्यन्ते॑ दि॒वः शिशु॑म्’ इति तृतीयः पादः। २. ऋतस्य यज्ञस्य मातरः निर्मात्र्यः स्तुतयः—इति सा०। मातरः धेनवः आदित्यरश्मयो वा आपो वा—इति वि०।