Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 876
ऋषिः - पवित्र आङ्गिरसः देवता - पवमानः सोमः छन्दः - जगती स्वरः - निषादः काण्ड नाम -
3

त꣡पो꣢ष्प꣣वि꣢त्रं꣣ वि꣡त꣢तं दि꣣व꣢स्प꣣दे꣡ऽर्च꣢न्तो अस्य꣣ त꣡न्त꣢वो꣣꣬ व्य꣢꣯स्थिरन् । अ꣡व꣢न्त्यस्य पवि꣣ता꣡र꣢मा꣣श꣡वो꣢ दि꣣वः꣢ पृ꣣ष्ठ꣡मधि꣢꣯ रोहन्ति꣣ ते꣡ज꣢सा ॥८७६॥

स्वर सहित पद पाठ

त꣡पोः꣢꣯ । प꣣वि꣡त्र꣢म् । वि꣡तत꣢꣯म् । वि । त꣣तम् । दिवः꣢ । प꣣दे꣢ । अ꣡र्च꣢꣯न्तः । अ꣣स्य । त꣡न्त꣢꣯वः । वि । अ꣣स्थिरन् । अ꣡व꣢꣯न्ति । अ꣣स्य । पविता꣡र꣢म् । आ꣣श꣡वः꣢ । दि꣣वः꣢ । पृ꣣ष्ठ꣢म् । अ꣡धि꣢꣯ । रो꣣हन्ति । ते꣡ज꣢꣯सा ॥८७६॥


स्वर रहित मन्त्र

तपोष्पवित्रं विततं दिवस्पदेऽर्चन्तो अस्य तन्तवो व्यस्थिरन् । अवन्त्यस्य पवितारमाशवो दिवः पृष्ठमधि रोहन्ति तेजसा ॥८७६॥


स्वर रहित पद पाठ

तपोः । पवित्रम् । विततम् । वि । ततम् । दिवः । पदे । अर्चन्तः । अस्य । तन्तवः । वि । अस्थिरन् । अवन्ति । अस्य । पवितारम् । आशवः । दिवः । पृष्ठम् । अधि । रोहन्ति । तेजसा ॥८७६॥

सामवेद - मन्त्र संख्या : 876
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 16; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 5; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थः -
(तपोः) तेजस्विनः सोमस्य परमात्मनः कृतिः (पवित्रम्) पवित्रतासाधनं सूर्यः। [सूर्यः पवित्रमुच्यते। निरु० ५।६।] (दिवः पदे) द्युलोके (विततम्) विस्तीर्णमस्ति। (अस्य) सूर्यस्य (अर्चन्तः) दीप्यमानाः२ (तन्तवः) किरणाः (व्यस्थिरन्) विविधेषु स्थानेषु तिष्ठन्ति। [विपूर्वात् ष्ठा गतिनिवृत्तौ इति धातोः लुङि छान्दसो झस्य रन् आदेशः सिचो लोपश्च।] (अस्य) सूर्यस्य (आशवः) शीघ्रगामिनः किरणाः (पवितारम्) शोधकं वायुम् (अवन्ति) रक्षन्ति, अस्यैव सूर्यस्य (तेजसा) तापेन समुद्रजलानि वाष्पीभूय (दिवः पृष्ठम्) आकाशस्य पृष्ठम् (अधि रोहन्ति) अधिगच्छन्ति, मेघाकारतां च प्रपद्यन्ते ॥२॥

भावार्थः - परमात्मनैव तेजोमयः सूर्यो रचितो यस्य रश्मयः पदार्थशोधनं, समुद्रजलानां वाष्पीकरणं वाष्पतस्योपरि नयनं, मेघनिर्माणमित्यादीनि विविधानि कार्याणि कुर्वन्ति ॥२॥

इस भाष्य को एडिट करें
Top