Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 877
ऋषिः - पवित्र आङ्गिरसः देवता - पवमानः सोमः छन्दः - जगती स्वरः - निषादः काण्ड नाम -
2

अ꣡रू꣢रुचदु꣣ष꣢सः꣣ पृ꣡श्नि꣢र꣣ग्रि꣢य उ꣣क्षा꣡ मि꣢मेति꣣ भु꣡व꣢नेषु वाज꣣युः꣢ । मा꣣यावि꣡नो꣢ ममिरे अस्य मा꣣य꣡या꣢ नृ꣣च꣡क्ष꣢सः पि꣣त꣢रो꣣ ग꣢र्भ꣣मा꣡ द꣢धुः ॥८७७॥

स्वर सहित पद पाठ

अ꣡रु꣢꣯रुचत् । उ꣣ष꣡सः꣢ । पृ꣡श्निः꣢꣯ । अ꣣ग्रियः꣢ । उ꣣क्षा꣢ । मि꣣मेति । भु꣡व꣢꣯नेषु । वा꣣ज꣢युः । मा꣣यावि꣡नः꣢ । म꣣मिरे । अस्य । माय꣡या꣢ । नृ꣣च꣡क्ष꣢सः । नृ꣣ । च꣡क्ष꣢꣯सः । पि꣣त꣡रः꣢ । ग꣡र्भ꣢꣯म् । आ । द꣣धुः ॥८७७॥


स्वर रहित मन्त्र

अरूरुचदुषसः पृश्निरग्रिय उक्षा मिमेति भुवनेषु वाजयुः । मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भमा दधुः ॥८७७॥


स्वर रहित पद पाठ

अरुरुचत् । उषसः । पृश्निः । अग्रियः । उक्षा । मिमेति । भुवनेषु । वाजयुः । मायाविनः । ममिरे । अस्य । मायया । नृचक्षसः । नृ । चक्षसः । पितरः । गर्भम् । आ । दधुः ॥८७७॥

सामवेद - मन्त्र संख्या : 877
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 16; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 5; सूक्त » 3; मन्त्र » 3
Acknowledgment

पदार्थः -
एषः (अग्रियः) अग्रेभवः (पृश्निः) सूर्यरूपः पवमानः सोमः (उषसः) प्रभातकान्तीः (अरूरुचत्) आरोचयति। एषः (उक्षा) वृष्टिजलेन सेचकः सूर्यः (भुवनेषु) भूखण्डेषु (वाजयुः२) परेषाम् अन्नकामः सन् मिमेति मिनोति, मेघोदकम् अधः प्रक्षिपति। [डुमिञ् प्रक्षेपणे, स्वादिः। विकरणव्यत्ययेन शपः श्लुः।] (अस्य) सूर्यस्यैव (मायया) कर्मणा (मायाविनः) कर्मवन्तः वायुजलविद्युदादयः (ममिरे) पदार्थान् निर्मिमते। किञ्च अस्य सूर्यस्यैव मायया (नृचक्षसः) नृणां प्रकाशप्रदाः (पितरः) पालकाः रश्मयः (गर्भम् आदधुः) ओषध्यादिषु गर्भं स्थापयन्ति ॥३॥

भावार्थः - सौरमण्डले उषःप्रादुर्भाव-जलवृष्टि-विद्युत्प्रकाशन-वायुगमन-बीजाङ्कुरणादिकं यत्किञ्चिदपि कर्म विद्यते तत्सर्वं सूर्यकृतमेवेति तन्महत्त्वं विज्ञाय तदुपयोगः सम्यक् शिल्पादिषु कार्यः। सूर्येऽपि सर्वा शक्तिः परमात्मकृतेति सूर्यस्यापि सूर्यः परमात्माऽस्तीत्यपि ज्ञातव्यम् ॥३॥

इस भाष्य को एडिट करें
Top