Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 878
ऋषिः - सौभरि: काण्व:
देवता - अग्निः
छन्दः - प्रगाथः(विषमा बृहती, समा सतोबृहती)
स्वरः - ऋषभः
काण्ड नाम -
4
प्र꣡ मꣳहि꣢꣯ष्ठाय गायत ऋ꣣ता꣡व्ने꣢ बृह꣣ते꣢ शु꣣क्र꣡शो꣢चिषे । उ꣣पस्तुता꣡सो꣢ अ꣣ग्न꣡ये꣢ ॥८७८॥
स्वर सहित पद पाठप्र꣢ । म꣡ꣳहि꣢꣯ष्ठाय । गा꣣यत । ऋता꣡व्ने꣢ । बृ꣣हते꣢ । शु꣣क्र꣡शो꣢चिषे । शु꣣क्र꣢ । शो꣣चिषे । उपस्तुता꣡सः꣢ । उ꣡प । स्तुता꣡सः꣢ । अ꣣ग्न꣡ये꣢ ॥८७८॥
स्वर रहित मन्त्र
प्र मꣳहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे । उपस्तुतासो अग्नये ॥८७८॥
स्वर रहित पद पाठ
प्र । मꣳहिष्ठाय । गायत । ऋताव्ने । बृहते । शुक्रशोचिषे । शुक्र । शोचिषे । उपस्तुतासः । उप । स्तुतासः । अग्नये ॥८७८॥
सामवेद - मन्त्र संख्या : 878
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 17; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 6; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 17; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 6; सूक्त » 1; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके १०७ क्रमाङ्के परमेश्वरविषये व्याख्याता। अत्राचार्यनृपतियज्ञाग्निविषय उच्यते।
पदार्थः -
हे (उपस्तुतासः) प्रशंसिता जनाः ! यूयम् (मंहिष्ठाय) दातृतमाय, (ऋताव्ने) सत्यपरायणाय, (बृहते) महते, (शुक्रशोचिषे) दीप्ततेजस्काय (अग्नये) अग्रनायकाय आचार्याय, नृपतये, यज्ञेषु अग्रं प्रणीताय यज्ञाग्नये वा (प्र गायत) प्रकृष्टतया महिमानं वर्णयत ॥१॥
भावार्थः - मनुष्यैर्धनविद्यादीनां दाता सत्यनिष्ठस्तेजस्वी महान् जन एवाचार्यत्वेन नृपतित्वेन च वरणीयः, बहुलाभप्रदे सत्यगुणकर्मस्वभावे प्रदीप्तशोचिष्के यज्ञाग्नौ च मन्त्रोच्चारणपूर्वकं होमः कार्यः ॥१॥
टिप्पणीः -
१. ऋ० ८।१०३।८, साम० १०७।