Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 885
ऋषिः - तिरश्चीराङ्गिरसः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
9

त꣡मु꣢ ष्टवाम꣣ यं꣢꣫ गिर꣣ इ꣡न्द्र꣢मु꣣क्था꣡नि꣢ वावृ꣣धुः꣢ । पु꣣रू꣡ण्य꣢स्य꣣ पौꣳस्या꣣ सि꣡षा꣢सन्तो वनामहे ॥८८५॥

स्वर सहित पद पाठ

तम् । उ꣣ । स्तवाम । य꣢म् । गि꣡रः꣢꣯ । इ꣡न्द्र꣢꣯म् । उ꣣क्था꣡नि꣢ । वा꣣वृधुः꣢ । पु꣣रू꣡णि꣢ । अ꣣स्य । पौ꣡ꣳस्या꣢꣯ । सि꣡षा꣢꣯सन्तः । व꣣नामहे ॥८८५॥


स्वर रहित मन्त्र

तमु ष्टवाम यं गिर इन्द्रमुक्थानि वावृधुः । पुरूण्यस्य पौꣳस्या सिषासन्तो वनामहे ॥८८५॥


स्वर रहित पद पाठ

तम् । उ । स्तवाम । यम् । गिरः । इन्द्रम् । उक्थानि । वावृधुः । पुरूणि । अस्य । पौꣳस्या । सिषासन्तः । वनामहे ॥८८५॥

सामवेद - मन्त्र संख्या : 885
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 19; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 6; सूक्त » 3; मन्त्र » 3
Acknowledgment

पदार्थः -
(तम् उ) तमेव (इन्द्रम्) परमात्मानमाचार्यं राजानं वा वयम् (स्तवाम) स्तुयाम, प्रशंसेम। [स्तवतेर्लेटि उत्तमबहुवचनम्।] (यम्) परमात्मानमाचार्यं राजानं वा (गिरः) वेदवाचः (उक्थ्यानि) उक्थानि स्तोत्राणि, स्वागतवचांसि, अभिनन्दनवचांसि वा। [वचेस्थकि उक्थम्, ततः स्वार्थे यत्।] (वावृधुः) कीर्तिगानेन वर्धयन्ति। वयम् (अस्य) परमात्मनः आचार्यस्य राज्ञो वा (पुरूणि) बहूनि (पौंस्या) पौंस्यानि बलधनविद्यासद्गुणादीनि। [पुंसि भवं पौंस्यम्।] (सिषासन्तः) अन्येभ्यः संभक्तुमिच्छन्तः। [षण सम्भक्तौ, सनि रूपम्।] (वनामहे) याचामहे। [वनु याचने तनादिः, विकरणव्यत्ययः] ॥३॥

भावार्थः - परमात्मन आचार्यान्नृपतेर्वा यद् धनबलविद्यादिकं प्राप्यते तन्न स्वयमेवोपभोक्तव्यं किन्त्वन्येभ्योऽपि देयम्, यतो न केनापि केवलमात्मोन्नत्या सन्तोष्टव्यं, प्रत्युत सर्वेषामुन्नतौ स्वोन्नतिः संभावनीया ॥३॥ अस्मिन् खण्डेऽध्ययनाध्यापनज्ञानरसब्रह्मानन्दरस-परमेश्वराचार्यनृपत्यादीनां विषयाणां वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्वेद्या ॥ इति बरेलीमण्डलान्तर्गतफरीदपुरवास्तव्यश्रीमद्गोपाल-रामभगवतीदेवीतनयेनहरिद्वारीयगुरुकुलकाङ्गड़ी-विश्वविद्यालयेऽधीतविद्येन विद्यामार्तण्डेन आचार्यरामनाथवेदालङ्कारेण महर्षिदयानन्द- सरस्वतीस्वामिकृतवेदभाष्यशैलीमनुसृत्य विरचिते संस्कृतार्यभाषाभ्यां समन्विते सुप्रमाणयुक्ते सामवेदभाष्ये उत्तरार्चिके द्वितीयः प्रपाठकः समाप्तिमगात् ॥

इस भाष्य को एडिट करें
Top