Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 887
ऋषिः - अकृष्टा माषाः देवता - पवमानः सोमः छन्दः - जगती स्वरः - निषादः काण्ड नाम -
5

उ꣣भय꣢तः꣣ प꣡व꣢मानस्य र꣣श्म꣡यो꣢ ध्रु꣣व꣡स्य꣢ स꣣तः꣡ परि꣢꣯ यन्ति के꣣त꣡वः꣢ । य꣡दी꣢ प꣣वि꣢त्रे꣣ अ꣡धि꣢ मृ꣣ज्य꣢ते꣣ ह꣡रिः꣢ स꣢त्ता꣣ नि꣡ योनौ꣢꣯ क꣣ल꣡शे꣢षु सीदति ॥८८७॥

स्वर सहित पद पाठ

उ꣣भय꣡तः꣢ । प꣡व꣢꣯मानस्य । र꣣श्म꣡यः꣢ । ध्रु꣣व꣡स्य꣢ । स꣣तः꣢ । प꣡रि꣢꣯ । य꣣न्ति । केत꣡वः꣢ । य꣡दि꣢꣯ । प꣣वि꣡त्रे꣢ । अ꣡धि꣢꣯ । मृ꣣ज्य꣡ते꣢ । ह꣡रिः꣢꣯ । स꣡त्ता꣢꣯ । नि । यो꣡नौ꣢꣯ । क꣣ल꣡शे꣢षु । सी꣣दति ॥८८७॥


स्वर रहित मन्त्र

उभयतः पवमानस्य रश्मयो ध्रुवस्य सतः परि यन्ति केतवः । यदी पवित्रे अधि मृज्यते हरिः सत्ता नि योनौ कलशेषु सीदति ॥८८७॥


स्वर रहित पद पाठ

उभयतः । पवमानस्य । रश्मयः । ध्रुवस्य । सतः । परि । यन्ति । केतवः । यदि । पवित्रे । अधि । मृज्यते । हरिः । सत्ता । नि । योनौ । कलशेषु । सीदति ॥८८७॥

सामवेद - मन्त्र संख्या : 887
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 1; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थः -
प्रथमः—सूर्यपक्षे। (ध्रुवस्य सतः) दिवि स्थिररूपेण विद्यमानस्य (पवमानस्य) शोधकस्य सूर्यस्य (केतवः) प्रकाशकाः (रश्मयः) किरणाः (उभयतः) भूगोलस्य उभयोः गोलार्धयोः (परि यन्ति) परिगच्छन्ति। (यदा) यदा (हरिः) रसानां हर्ता किरणसमूहः (पवित्रे अधि) अन्तरिक्षे। [अन्तरिक्षं वै पवित्रम्। काठ सं० २६।१०।] (मृज्यते) प्रेष्यते। [मार्ष्टिः गतिकर्मा। निघं० २।१४।] तदा (योनौ सत्ता) अन्तरिक्षे स्थितः सः। [योनिरन्तरिक्षम् इति निरुक्तम् २।८।] (कलशेषु) मङ्गलबुधचन्द्रादिषु ग्रहोपग्रहेषु (निषीदति) निगच्छति, गत्वा च तान् प्रकाशितान् करोति। [षदलृ विशरणगत्यवसादनेषु, भ्वादिः] ॥ द्वितीयः—परमात्मपक्षे। (ध्रुवस्य सतः) स्थिरस्य अजरामरस्य सनातनस्य सतः (पवमानस्य) पवित्रताकरस्य परमात्मनः (केतवः) प्रज्ञापकाः (रश्मयः) दिव्यप्रकाशकिरणाः (उभयतः) उभयोः कालयोः प्रातः सायं च सन्ध्यावन्दनसमये (परि यन्ति) उपासकं परि प्राप्नुवन्ति। (यदि) यदा (हरिः) दोषापहारकः परमात्मा (पवित्रे अधि) पवित्रहृदयाभ्यन्तरे (मृज्यते) भक्तिभावरूपैरलङ्कारैरलङ्क्रियते तदा (योनौ सत्ता) हृदयगृहे स्थितः सः। [योनिरिति गृहनाम निघं० ३।४।] (कलशेषु) अन्नमयप्राणमयमनोमयादिकोशेषु (निषीदति) निषदनं करोति, तत्र निषण्णश्च आत्ममनोबुद्ध्यादीनि सर्वाणि प्रभावयति ॥२॥ अत्र श्लेषालङ्कारः ॥२॥

भावार्थः - यथा सोमरसो दशापवित्रमार्गेण द्रोणकलशेषु तिष्ठति, यथा वा सूर्यरश्मिरन्तरिक्षमार्गेण ग्रहोपग्रहेषु निषीदति तथैव परमेश्वरो हृदयमार्गेण देहस्थपञ्चकोशेषु तिष्ठति ॥२॥

इस भाष्य को एडिट करें
Top