Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 912
ऋषिः - गृत्समदः शौनकः
देवता - मित्रावरुणौ
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
ता꣢ स꣣म्रा꣡जा꣢ घृ꣣ता꣡सु꣢ती आदि꣣त्या꣡ दानु꣢꣯न꣣स्प꣡ती꣢ । स꣡चे꣢ते꣣ अ꣡न꣢वह्वरम् ॥९१२॥
स्वर सहित पद पाठता꣢ । स꣣म्रा꣡जा꣢ । स꣣म् । रा꣡जा꣢꣯ । घृ꣣ता꣡सु꣢ती । घृ꣡त꣢ । आ꣣सुतीइ꣡ति꣢ । आ꣣दित्या꣢ । आ꣣ । दित्या꣢ । दा꣡नु꣢꣯नः । पती꣢꣯इ꣢ति꣢ । स꣡चे꣢꣯ते꣣इ꣡ति꣢ । अ꣡न꣢꣯वह्वरम् । अन् । अ꣣वह्वरम् ॥९१२॥
स्वर रहित मन्त्र
ता सम्राजा घृतासुती आदित्या दानुनस्पती । सचेते अनवह्वरम् ॥९१२॥
स्वर रहित पद पाठ
ता । सम्राजा । सम् । राजा । घृतासुती । घृत । आसुतीइति । आदित्या । आ । दित्या । दानुनः । पतीइति । सचेतेइति । अनवह्वरम् । अन् । अवह्वरम् ॥९१२॥
सामवेद - मन्त्र संख्या : 912
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 3; सूक्त » 2; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 3; सूक्त » 2; मन्त्र » 3
Acknowledgment
विषयः - अथ पुनरपि स एव विषय उच्यते।
पदार्थः -
प्रथमः—आत्ममनःपक्षे। (ता) तौ (घृतासुती) तेजःप्रेरकौ। [घृतं तेजः, घृ क्षरणदीप्त्योः।] (आदित्या) आदित्यौ, ज्ञानेन प्रकाशमानौ (दानुनः पती) दानस्य अधीश्वरौ। [दा धातोः दाभाभ्यां नुः। उ० ३।३२ इति नुः प्रत्ययः।] (सम्राजा) देहस्य सम्राजौ आत्ममनसी (अनवह्वरम्) अकुटिलं सरलं मार्गम्। [ह्वृ कौटिल्ये।] (सचेते) सेवेताम्। [षच सेवने च भ्वादिः, लेट्] ॥ द्वितीयः—नृपतिप्रधानमन्त्रिपक्षे। (ता) तौ (घृतासुती) राष्ट्रे घृतदुग्धादिसेक्तारौ, (आदित्या) ज्ञानप्रकाशेन भासमानौ, (दानुनः पती) दानस्य स्वामिनौ, दानदातारावित्यर्थः, (सम्राजा) सम्राजौ तेजस्विनौ नृपतिप्रधानमन्त्रिणौ (अनवह्वरम्) अकुटिलं व्यवहारम् (सचेते) सेवेताम् ॥३॥२ अत्र श्लेषालङ्कारः ॥३॥
भावार्थः - आत्ममनसोरगाधा शक्तिरन्तर्निहिता। किन्तु ताभ्यां सरल एव पन्था आश्रयणीयो न वक्रः। तथैव नृपतिप्रधानमन्त्रिणावपि सरलेनैव पथा व्यवहरन्तौ राष्ट्रमुन्नेतुं प्रभवतः ॥३॥
टिप्पणीः -
१. ऋ० २।४१।६। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं सूर्यचन्द्रविषये व्याख्यातवान्।