Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 913
ऋषिः - गोतमो राहूगणः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
7
इ꣡न्द्रो꣢ दधी꣣चो꣢ अ꣣स्थ꣡भि꣢र्वृ꣣त्रा꣡ण्यप्र꣢꣯तिष्कुतः । ज꣣घा꣡न꣢ नव꣣ती꣡र्नव꣢꣯ ॥९१३॥
स्वर सहित पद पाठइ꣡न्द्रः꣢꣯ । द꣣धीचः꣢ । अ꣢स्थ꣡भिः꣢ । वृ꣣त्रा꣡णि꣢ । अ꣡प्र꣢꣯तिष्कुतः । अ । प्र꣣तिष्कुतः । जघा꣡न꣢ । न꣣वतीः꣢ । न꣡व꣢꣯ ॥९१३॥
स्वर रहित मन्त्र
इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः । जघान नवतीर्नव ॥९१३॥
स्वर रहित पद पाठ
इन्द्रः । दधीचः । अस्थभिः । वृत्राणि । अप्रतिष्कुतः । अ । प्रतिष्कुतः । जघान । नवतीः । नव ॥९१३॥
सामवेद - मन्त्र संख्या : 913
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 8; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 3; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 8; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 3; सूक्त » 3; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके १७९ क्रमाङ्के जीवात्मपरमात्मविषये व्याख्याता। अत्र जगदीश्वरकर्मोच्यते।
पदार्थः -
(अप्रतिष्कुतः) केनापि शत्रुणा अप्रतिकृतः (इन्द्रः) शत्रुविदारको जगदीश्वरः (दधीचः) आदित्यस्य। [दधातीति दधिः। आदृगमहनजनः किकिनौ लिट् च। अ० ३।२।१७१ इत्यनेन दधातेः किः प्रत्ययः। दधिः धारकः सन् अञ्चति स्वधुरि भ्रमतीति दध्यङ्, तस्य दधीचः आदित्यस्य।] (अस्थभिः) अस्थितुल्यैः किरणसमूहैः (नवनवतीः) प्रतिशतं नवनवतिम् (वृत्राणि) रोगमालिन्यादीनि (जघान) हन्ति ॥१॥२
भावार्थः - अहो, कीदृशं जगदीश्वरस्य महत् कर्म यत् स विशालेन सूर्यरूपेण साधनेन प्रायशः सर्वाण्येव रोगमलादीनि हत्वाऽस्माकं जीवनानि सुरक्षितानि करोति। यदि स मलापहारकं सूर्यं न व्यरचयिष्यत् तर्हि भूमण्डलं नानाव्याधिभिर्निखिलैर्मलैश्च परिपूर्णं सन्निवासयोग्यमपि नाभविष्यत् ॥१॥३
टिप्पणीः -
१. ऋ० १।८४।१३, साम० १७९, अथ० २०।४१।१। २. ऋग्भाष्ये दयानन्दर्षिरस्मिन् मन्त्रे सूर्यदृष्टान्तेन सेनापतिकृत्यं वर्णितवान्। ३. अस्मिन् मन्त्रे सायणादिभिर्य इतिहासः प्रदर्शितः स पूर्वार्चिके १७९ संख्यकस्य मन्त्रस्य व्याख्यानेऽस्माभिर्निर्दिष्टः। स इतिहासस्तत्रास्माकं टिप्पण्यश्च तत्रैव द्रष्टव्याः।