Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 915
ऋषिः - गोतमो राहूगणः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

अ꣢꣫त्राह꣣ गो꣡र꣢मन्वत꣣ ना꣢म꣣ त्व꣡ष्टु꣢रपी꣣꣬च्य꣢꣯म् । इ꣣त्था꣢ च꣣न्द्र꣡म꣢सो गृ꣣हे꣢ ॥९१५॥

स्वर सहित पद पाठ

अ꣡त्र꣢꣯ । अ꣡ह꣢꣯ । गोः । अ꣣मन्वत । ना꣡म꣢꣯ । त्व꣡ष्टुः꣢꣯ । अ꣡पीच्य꣢म् । इ꣣त्था꣢ । च꣣न्द्र꣡म꣢सः । च꣣न्द्र꣢ । म꣣सः । गृहे꣣ ॥९१५॥


स्वर रहित मन्त्र

अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम् । इत्था चन्द्रमसो गृहे ॥९१५॥


स्वर रहित पद पाठ

अत्र । अह । गोः । अमन्वत । नाम । त्वष्टुः । अपीच्यम् । इत्था । चन्द्रमसः । चन्द्र । मसः । गृहे ॥९१५॥

सामवेद - मन्त्र संख्या : 915
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 8; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 3; सूक्त » 3; मन्त्र » 3
Acknowledgment

पदार्थः -
(अत्र ह) अत्र खलु (त्वष्टुः) दीप्तात् सूर्यात् (अपीच्यम्) अपगतं प्रकाशम्। [अप अञ्चतीति अपीचिः, तम् अपीच्यम्। पूर्वरूपाभावश्छान्दसः। ततो यण्।] (गोः नाम) पृथिव्यां नतम् (अमन्वत)मन्वते जनाः। (इत्था) इत्थम् पृथिवीं मध्ये कृत्वा स प्रकाशः (चन्द्रमसः गृहे) चन्द्रमण्डले पतति, ततः चन्द्रः प्रकाशितो जायते। एष इन्द्रस्य परमेश्वरस्यैव महिमाऽस्ति ॥३॥२

भावार्थः - पृथिवी खल्वण्डाकृतिमार्गेण सूर्यं परितो याति, चन्द्रश्च पृथिवीं परिक्राम्यन् पृथिव्या सह सूर्यमपि परिक्रामति। सूर्यचन्द्रयोर्मध्ये पृथिव्या आगमनात् प्रत्यहं चन्द्रमसः सम्पूर्णे गोलार्धे सूर्यप्रकाशो न पतति। चन्द्रस्य यावानंशः पृथिव्या अवरुद्धो जायते तावत्यंशे सूर्यप्रकाशस्यापतनात् सोंऽशस्तमसावृत एव तिष्ठति। चन्द्रमसः कलानां हासवृद्ध्योरिदमेव रहस्यम्। अमावस्यायां सम्पूर्णस्य चन्द्रस्य पृथिव्या आवृतत्वात् सम्पूर्ण एव चन्द्रोऽन्धकारावृतो भवति, पूर्णिमायां च सम्पूर्णस्य चन्द्रस्य पृथिव्या मुक्तत्वात् सम्पूर्ण एव चन्द्रः प्रकाशितो भवति। इयमेव परमेश्वरकृता व्यवस्था मन्त्रेऽस्मिन् वर्णिता ॥३॥

इस भाष्य को एडिट करें
Top