Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 918
ऋषिः - वसिष्ठो मैत्रावरुणिः
देवता - इन्द्राग्नी
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
6
मा꣡ पा꣢प꣣त्वा꣡य꣢ नो न꣣रे꣡न्द्रा꣢ग्नी꣣ मा꣡भिश꣢꣯स्तये । मा꣡ नो꣢ रीरधतं नि꣣दे꣢ ॥९१८॥
स्वर सहित पद पाठमा । पा꣣पत्वा꣡य꣢ । नः꣣ । नरा । इ꣡न्द्रा꣢꣯ग्नी । इ꣡न्द्र꣢꣯ । अ꣣ग्नीइ꣡ति꣢ । मा । अ꣣भि꣡श꣢स्तये । अ꣣भि꣢ । श꣣स्तये । मा꣢ । नः꣣ । रीरधतम् । निदे꣢ ॥९१८॥
स्वर रहित मन्त्र
मा पापत्वाय नो नरेन्द्राग्नी माभिशस्तये । मा नो रीरधतं निदे ॥९१८॥
स्वर रहित पद पाठ
मा । पापत्वाय । नः । नरा । इन्द्राग्नी । इन्द्र । अग्नीइति । मा । अभिशस्तये । अभि । शस्तये । मा । नः । रीरधतम् । निदे ॥९१८॥
सामवेद - मन्त्र संख्या : 918
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 9; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 3; सूक्त » 4; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 9; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 3; सूक्त » 4; मन्त्र » 3
Acknowledgment
विषयः - अथात्ममनसी प्रार्थयते।
पदार्थः -
हे (इन्द्राग्नी) आत्ममनसी ! (नरा) नरौ नेतारौ युवाम् (मा) नैव (पापत्वाय) पापकर्मणे, (मा) नैव (अभिशस्तये) हिंसायै, (मा) नैव च (नः) अस्मान् (निदे) निन्दकाय (रीरधतम्) वशे कुरुतम्। [रध हिंसासंराध्योः, दिवादिः, ण्यन्ताल्लुङि रूपम्। ‘बहुलं छन्दस्यमाङ्योगेऽपि’ इत्यडभावः] ॥३॥
भावार्थः - आत्ममनसी उद्बोध्य मनुष्यैः पापहिंसानिन्दादिभ्यो मुक्तिः प्राप्तव्या ॥३॥ अस्मिन् खण्डे परमेश्वरस्वरूपस्य, परमेश्वरस्तुतेः, परमात्मप्राप्तेः, आत्ममनसोः, प्रसङ्गतश्च नृपतिप्रधानमन्त्रिणो विषयवर्णना- देतत्खण्डस्य पूर्वखण्डेन संगतिर्वेद्या ॥
टिप्पणीः -
१. ऋ० ७।९४।३।