Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 922
ऋषिः - सप्तर्षयः देवता - पवमानः सोमः छन्दः - प्रगाथः(विषमा बृहती, समा सतोबृहती) स्वरः - मध्यमः काण्ड नाम -
5

त꣢वा꣣ह꣡ꣳ सो꣢म रारण स꣣ख्य꣡ इ꣢न्दो दि꣣वे꣡दि꣢वे । पु꣣रूणि꣢ बभ्रो꣣ नि꣡ च꣢रन्ति꣣ मा꣡मव꣢꣯ प꣣रिधी꣢꣫ꣳरति꣣ ता꣡ꣳइ꣢हि ॥९२२॥

स्वर सहित पद पाठ

त꣡व꣢꣯ । अ꣡ह꣢म् । सो꣣म । रारण । सख्ये꣢ । स꣣ । ख्ये꣢ । इ꣣न्दो । दिवे꣡दि꣢वे । दि꣣वे꣢ । दि꣣वे । पुरू꣡णि꣢ । ब꣣भ्रो । नि꣢ । च꣣रन्ति । मा꣢म् । अ꣡व꣢꣯ । प꣣रिधी꣢न् । प꣣रि । धी꣢न् । अ꣡ति꣢꣯ । तान् । इ꣣हि ॥९२२॥


स्वर रहित मन्त्र

तवाहꣳ सोम रारण सख्य इन्दो दिवेदिवे । पुरूणि बभ्रो नि चरन्ति मामव परिधीꣳरति ताꣳइहि ॥९२२॥


स्वर रहित पद पाठ

तव । अहम् । सोम । रारण । सख्ये । स । ख्ये । इन्दो । दिवेदिवे । दिवे । दिवे । पुरूणि । बभ्रो । नि । चरन्ति । माम् । अव । परिधीन् । परि । धीन् । अति । तान् । इहि ॥९२२॥

सामवेद - मन्त्र संख्या : 922
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 11; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 4; सूक्त » 2; मन्त्र » 1
Acknowledgment

पदार्थः -
हे (इन्दो) विद्यारसेन क्लेदयितः, तेजस्विन् (सोम) विद्यारसागार आचार्य ! (अहम्) शिष्यः (तव सख्ये) त्वदीये सखित्वे (दिवे-दिवे) दिने दिने (रारण)वेदशास्त्राणि उच्चारयामि। [रण शब्दे, लडर्थे लिट्। उत्तमैकवचने ररण इति प्राप्तेऽभ्यासदीर्घश्छान्दसः।]हे (बभ्रो) सर्वेषां शिष्याणां भरणपोषणकर्तः आचार्य ! (पुरूणि) बहूनि दोषजातानि (माम्) शिष्यम् (नि अव चरन्ति) बाधन्ते, (परिधीन् तान्) परिवारकान् तान् दोषान् (अति इहि) अतिक्रमस्व, विनाशय ॥१॥

भावार्थः - गुरूणामिदं कर्त्तव्यं यत्ते शिष्येषु प्रादुर्भूतान् सर्वान् दोषान् दूरीकृत्य तान् निर्मलचरित्रान् विदुषश्च कुर्युः ॥१॥

इस भाष्य को एडिट करें
Top