Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 926
ऋषिः - बृहन्मतिराङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

नू꣡ नो꣢ र꣣यिं꣢ म꣣हा꣡मि꣢न्दो꣣ऽस्म꣡भ्य꣢ꣳ सोम वि꣣श्व꣡तः꣢ । आ꣡ प꣢वस्व सह꣣स्रि꣡ण꣢म् ॥९२६॥

स्वर सहित पद पाठ

नु꣢ । नः꣣ । रयि꣢म् । म꣣हा꣢म् । इ꣣न्दो । अस्म꣡भ्य꣢म् । सोम । वि꣣श्व꣡तः꣢ । आ । प꣣वस्व । सहस्रि꣡ण꣢म् ॥९२६॥


स्वर रहित मन्त्र

नू नो रयिं महामिन्दोऽस्मभ्यꣳ सोम विश्वतः । आ पवस्व सहस्रिणम् ॥९२६॥


स्वर रहित पद पाठ

नु । नः । रयिम् । महाम् । इन्दो । अस्मभ्यम् । सोम । विश्वतः । आ । पवस्व । सहस्रिणम् ॥९२६॥

सामवेद - मन्त्र संख्या : 926
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 12; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 4; सूक्त » 3; मन्त्र » 3
Acknowledgment

पदार्थः -
हे (इन्दो) तेजस्विन्, आनन्दरसेन विद्यारसेन वा क्लेदयितः (सोम) शुभगुणप्रेरक परमात्मन् आचार्य वा ! त्वम् (नु) निश्चयेन (अस्मभ्यम्) नः (विश्वतः) सर्वतः (महाम्) महान्तम् (सहस्रिणम्)सहस्रसंख्यावन्तम् (रयिम्) धनधान्यविद्यारोग्यसच्चारित्र्य-न्यायदयादिकम् ऐश्वर्यम् (आ पवस्व) आ गमय ॥३॥

भावार्थः - परमात्मकृपयाऽऽचार्यस्य च प्रयत्नेन मनुष्याः सर्वामप्याध्यात्मिकीं भौतिकीं च सम्पदं प्राप्तुं शक्नुवन्ति ॥३॥ अस्मिन् खण्डे गुरुशिष्यविषयस्य परमात्मविषयस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन सह संगतिरस्ति ॥

इस भाष्य को एडिट करें
Top