Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 929
ऋषिः - वसिष्ठो मैत्रावरुणिः
देवता - इन्द्रः
छन्दः - विराडनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
3
बो꣢धा꣣ सु꣡ मे꣢ मघव꣣न्वा꣢च꣣मे꣢꣫मां यां ते꣣ व꣡सि꣢ष्ठो꣣ अ꣡र्च꣢ति꣣ प्र꣡श꣢स्तिम् । इ꣣मा꣡ ब्रह्म꣢꣯ सध꣣मा꣡दे꣢ जुषस्व ॥९२९॥
स्वर सहित पद पाठबो꣡ध꣢꣯ । सु । मे꣣ । मघवन् । वा꣡च꣢꣯म् । आ । इ꣣मा꣡म् । याम् । ते꣣ । व꣡सि꣢꣯ष्ठः । अ꣡र्च꣢꣯ति । प्र꣡श꣢꣯स्तिम् । प्र । श꣣स्तिम् । इमा꣢ । ब्र꣡ह्म꣢꣯ । स꣣धमा꣡दे꣢ । स꣣ध । मा꣡दे꣢ । जु꣣षस्व ॥९२९॥
स्वर रहित मन्त्र
बोधा सु मे मघवन्वाचमेमां यां ते वसिष्ठो अर्चति प्रशस्तिम् । इमा ब्रह्म सधमादे जुषस्व ॥९२९॥
स्वर रहित पद पाठ
बोध । सु । मे । मघवन् । वाचम् । आ । इमाम् । याम् । ते । वसिष्ठः । अर्चति । प्रशस्तिम् । प्र । शस्तिम् । इमा । ब्रह्म । सधमादे । सध । मादे । जुषस्व ॥९२९॥
सामवेद - मन्त्र संख्या : 929
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 13; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 5; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 13; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 5; सूक्त » 1; मन्त्र » 3
Acknowledgment
विषयः - अथोपासकः परमात्मानं सम्बोधयति।
पदार्थः -
हे (मघवन्) ऐश्वर्यवन् दानवन् वा परमात्मन् ! त्वम् (मे) मम (इमाम्) एताम् (प्रशस्तिं वाचम्) त्वद्गुणावलिगानरूपां वाणीम् (सु आ बोध) सम्यग् जानीहि, (याम्) वाचम् (ते) तुभ्यम् (वसिष्ठः अर्चति) स्वाभ्यन्तरे सद्गुणानाम् अतिशयेन वासकः जनः उच्चारयति, वसिष्ठोऽहमुच्चारयामीत्यर्थः। [अत्र स्वात्मार्थे प्रथमपुरुषप्रयोगः।] त्वम् (सधमादेः) सामूहिके उपासनायज्ञे। [सह माद्यन्ति जना अत्र इति सधमादो यज्ञः।] (इमा ब्रह्म) इमानि ब्रह्माणि एतानि स्तोत्राणि (जुषस्व) स्वीकुरु। [इमा, ब्रह्म इत्युभयत्र ‘शेश्छन्दसि बहुलम्। अ० ६।१।७०’ इति शेर्लोपः] ॥३॥१
भावार्थः - ये श्रद्धया परमात्मनो गुणावलिं प्रशंसन्ति ते स्वयमपि गुणिनो भूत्वोत्कर्षं लभन्ते ॥३॥
टिप्पणीः -
१. दयानन्दस्वामिना ऋग्भाष्ये मन्त्रोऽयं विद्वद्विषये व्याख्यातः।