Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 928
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - इन्द्रः छन्दः - विराडनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
5

य꣢स्ते꣣ म꣢दो꣣ यु꣢ज्य꣣श्चा꣢रु꣣र꣢स्ति꣣ ये꣡न꣢ वृ꣣त्रा꣡णि꣢ हर्यश्व꣣ ह꣡ꣳसि꣢ । स꣡ त्वामि꣢꣯न्द्र प्रभूवसो ममत्तु ॥९२८॥

स्वर सहित पद पाठ

यः । ते꣣ । म꣡दः꣢꣯ । यु꣡ज्यः꣢꣯ । चा꣡रुः꣢꣯ । अ꣡स्ति꣢꣯ । ये꣡न꣢꣯ । वृ꣣त्रा꣡णि꣢ । ह꣣र्यश्व । हरि । अश्व । ह꣡ꣳसि꣢꣯ । सः । त्वाम् । इ꣣न्द्र । प्रभूवसो । प्रभु । वसो । ममत्तु ॥९२८॥


स्वर रहित मन्त्र

यस्ते मदो युज्यश्चारुरस्ति येन वृत्राणि हर्यश्व हꣳसि । स त्वामिन्द्र प्रभूवसो ममत्तु ॥९२८॥


स्वर रहित पद पाठ

यः । ते । मदः । युज्यः । चारुः । अस्ति । येन । वृत्राणि । हर्यश्व । हरि । अश्व । हꣳसि । सः । त्वाम् । इन्द्र । प्रभूवसो । प्रभु । वसो । ममत्तु ॥९२८॥

सामवेद - मन्त्र संख्या : 928
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 13; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 5; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थः -
हे (हर्यश्व) हरयः ज्ञानकर्मणाम् आहर्तारः अश्वाः ज्ञानेन्द्रियकर्मेन्द्रियरूपाः यस्य तादृश जीवात्मन् ! (यः ते) तव (मदः) उत्साहः (युज्यः) तव सहयोगी (चारुः) श्रेष्ठश्च (अस्ति) विद्यते, (येन) मदेन उत्साहेन त्वम् (वृत्राणि) बाह्यान् आन्तरिकांश्च रिपून् (हंसि) विनाशयसि, (सः) असौ मदः उत्साहः, हे (प्रभूवसो) बहुगुण (इन्द्र) जीवात्मन् ! (त्वा) त्वाम् (ममत्तु) आनन्दयतु ॥२॥२

भावार्थः - मनुष्यस्यात्मा स्वशक्तिं परिचित्य सोत्साहो भूत्वा यदा जीवनसंग्राममवतरति तदा तस्य विजयः सुनिश्चितः ॥२॥

इस भाष्य को एडिट करें
Top