Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 945
ऋषिः - प्रतर्दनो दैवोदासिः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
7

प्रा꣡वी꣢विपद्वा꣣च꣢ ऊ꣣र्मिं꣢꣫ न सिन्धु꣣र्गि꣢र꣣ स्तो꣢मा꣣न्प꣡व꣢मानो मनी꣣षाः꣢ । अ꣣न्तः꣡ पश्य꣢꣯न्वृ꣣ज꣢ने꣣मा꣡व꣢रा꣣ण्या꣡ ति꣢ष्ठति वृष꣣भो꣡ गोषु꣢꣯ जा꣡न꣢न् ॥९४५॥

स्वर सहित पद पाठ

प्र । अ꣣वीविपत् । वाचः꣢ । ऊ꣣र्मि꣢म् । न । सि꣡न्धुः꣢꣯ । गि꣡रः꣢꣯ । स्तो꣡मा꣢꣯न् । प꣡व꣢꣯मानः । म꣣नीषाः꣢ । अ꣣न्त꣡रिति꣢ । प꣡श्य꣢꣯न् । वृ꣣ज꣡ना꣢ । इ꣣मा꣢ । अ꣡वरा꣢꣯णि । आ । ति꣣ष्ठति । वृषभः꣢ । गो꣡षु꣢꣯ । जा꣣न꣢म् ॥९४५॥


स्वर रहित मन्त्र

प्रावीविपद्वाच ऊर्मिं न सिन्धुर्गिर स्तोमान्पवमानो मनीषाः । अन्तः पश्यन्वृजनेमावराण्या तिष्ठति वृषभो गोषु जानन् ॥९४५॥


स्वर रहित पद पाठ

प्र । अवीविपत् । वाचः । ऊर्मिम् । न । सिन्धुः । गिरः । स्तोमान् । पवमानः । मनीषाः । अन्तरिति । पश्यन् । वृजना । इमा । अवराणि । आ । तिष्ठति । वृषभः । गोषु । जानम् ॥९४५॥

सामवेद - मन्त्र संख्या : 945
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 19; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 6; सूक्त » 4; मन्त्र » 3
Acknowledgment

पदार्थः -
(सिन्धुः) समुद्रः (ऊर्मिं न) तरङ्गं यथा प्रेरयति तथा उपासकः परमात्मानं प्रति (वाचः) स्तुतिगिरः (प्रावीविपत्२) प्रेरयति। परमात्मा च तस्य (गिरः) स्तुतिवाचः (स्तोमान्) समूहान् (मनीषाः) धियश्च (पवमानः) पवित्रीकुर्वन् भवति। ततः (वृषभः) स्तुतिवर्षकः उपासकः (गोषु जानन्३) गवाम् इन्द्रियाणां विषये जानन् इन्द्रियाणि पराञ्चि भवन्तीति जानन्नित्यर्थः। [पराञ्चि रवानि व्यतृणत् स्वयम्भूरित्युक्तेः। कठ० उ० २।४।१।] (अन्तः पश्यन्) अन्तर्दृष्टिं कुर्वन् (इमा) इमानि (अवराणि) बाह्यानि (वृजना४) वृजनानि विषयभोगानां बलानि। [वृजनमिति बलनाम निघं० २।९।] (आतिष्ठति) आक्रम्य तिष्ठति ॥३॥ अत्रोपमालङ्कारः ॥३॥

भावार्थः - मनुष्या भोगविलासेभ्यो मनो निवर्त्यान्तर्दृष्टिं विधाय परमात्मानमुपास्याऽऽनन्दिनो भवन्तु ॥३॥ अस्मिन् खण्डे गुरुशिष्ययोः परमात्मनो ब्रह्मानन्दस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥

इस भाष्य को एडिट करें
Top