Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 952
ऋषिः - पावकोऽग्निर्बार्हस्पत्यो वा, गृहपतियविष्ठौ सहसः पुत्रावन्यतरो वा
देवता - इन्द्रः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम -
5
इ꣡न्द्र꣢ जु꣣ष꣢स्व꣣ प्र꣢ व꣣हा꣡ या꣢हि शूर꣣ ह꣡रि꣢ह । पि꣡बा꣢ सु꣣त꣡स्य꣢ म꣣ति꣡र्न मधो꣢꣯श्चका꣣न꣢꣫श्चारु꣣र्म꣡दा꣢य ॥९५२॥
स्वर सहित पद पाठइ꣡न्द्र꣢꣯ । जु꣣ष꣡स्व꣢ । प्र । व꣣ह । आ꣢ । या꣣हि । शूर । ह꣡रि꣢꣯ह । पि꣡ब꣢꣯ । सु꣣त꣡स्य꣢ । म꣣तिः꣢ । न । म꣡धोः꣢꣯ । च꣣कानः꣢ । चा꣡रुः꣢꣯ । म꣡दा꣢꣯य ॥९५२॥
स्वर रहित मन्त्र
इन्द्र जुषस्व प्र वहा याहि शूर हरिह । पिबा सुतस्य मतिर्न मधोश्चकानश्चारुर्मदाय ॥९५२॥
स्वर रहित पद पाठ
इन्द्र । जुषस्व । प्र । वह । आ । याहि । शूर । हरिह । पिब । सुतस्य । मतिः । न । मधोः । चकानः । चारुः । मदाय ॥९५२॥
सामवेद - मन्त्र संख्या : 952
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 22; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 6; सूक्त » 7; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 22; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 6; सूक्त » 7; मन्त्र » 1
Acknowledgment
विषयः - अथ जीवात्मविषय उच्यते।
पदार्थः -
हे (इन्द्र) जीवात्मन् ! त्वम् (जुषस्व) प्रीयस्व, (प्र वह) देहयात्रां प्रकर्षेण वह। हे (शूर) वीर, हे (हरिह) ज्ञानेन्द्रियकर्मेन्द्रियाभ्यां व्यवहर्तः ! [हरिभ्यां ज्ञानकर्मेन्द्रियाभ्यां हन्ति गच्छति व्यवहरतीति हरिहा, तत्संबुद्धौ।] त्वम् (आ याहि) आगच्छ। त्वम् (सुतस्य) अभिषुतस्य वीररसस्य (पिब) पानं कुरु। (मतिः न) मेधावी पुरुष इव। [मतिरिति मेधाविनाम। निघं० ३।१५।] (चारुः) श्रेष्ठः त्वम् (मदाय) उत्साहाय (मधोः) मधुरस्य भक्तिरसस्य (चकानः) कामयमानः भव ॥१॥ अत्रोपमालङ्कारः ॥१॥
भावार्थः - मनुष्यस्यात्मा वीररसं पीत्वोत्साहवान् भूत्वा भक्तिरसतरङ्गैस्तरङ्गितो भूत्वा कठिनतमान्यपि कार्याणि कर्तुं शक्नोति ॥१॥
टिप्पणीः -
१. अथ० २।५।१, ‘हरिह’ ‘मतिर्न’ इत्यत्र क्रमेण ‘हरिभ्या॑म्’ ‘म॒तेरि॒ह’ इति पाठः।