Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 951
ऋषिः - गोतमो राहूगणः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
3

इ꣡न्द्रा꣢य नू꣣न꣡म꣢र्चतो꣣क्था꣡नि꣢ च ब्रवीतन । सु꣣ता꣡ अ꣢मत्सु꣣रि꣡न्द꣢वो꣣ ज्ये꣡ष्ठं꣢ नमस्यता꣣ स꣡हः꣢ ॥९५१॥

स्वर सहित पद पाठ

इ꣡न्द्रा꣢꣯य । नू꣣न꣢म् । अ꣣र्चत । उक्था꣡नि꣢ । च꣣ । ब्रवीतन । ब्रवीत । न । सुताः꣡ । अ꣡मत्सुः । इ꣡न्द꣢꣯वः । ज्ये꣡ष्ठ꣢꣯म् । न꣣मस्यत । स꣡हः꣢꣯ ॥९५१॥


स्वर रहित मन्त्र

इन्द्राय नूनमर्चतोक्थानि च ब्रवीतन । सुता अमत्सुरिन्दवो ज्येष्ठं नमस्यता सहः ॥९५१॥


स्वर रहित पद पाठ

इन्द्राय । नूनम् । अर्चत । उक्थानि । च । ब्रवीतन । ब्रवीत । न । सुताः । अमत्सुः । इन्दवः । ज्येष्ठम् । नमस्यत । सहः ॥९५१॥

सामवेद - मन्त्र संख्या : 951
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 21; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 6; सूक्त » 6; मन्त्र » 3
Acknowledgment

पदार्थः -
हे मनुष्याः ! यूयम् (इन्द्राय) स्वान्तरात्मने (नूनम्) अवश्यम् (अर्चत) स्तुत, (उक्थानि च) उद्बोधनगीतानि च (ब्रवीतन) उच्चारयत। (सुताः) प्रेरिताः (इन्दवः) वीररसाः भक्तिरसाश्च, तम् (अमत्सुः) हर्षयेयुः उत्साहयेयुः। [मदी हर्षे, लिङर्थे लुङ्।] अस्य इन्द्रस्य जीवात्मनः (ज्येष्ठम्) वृद्धतमम् (सहः) बलम्, यूयम् (नमस्यत) प्रशंसत ॥३॥२

भावार्थः - मनुष्यस्याऽऽत्मनि महद् बलं निहितमस्ति, तमुद्बोध्य प्रभुभक्त्या च संमार्ज्य सर्वाणि कार्याणि साद्धुं शक्यन्ते ॥३॥

इस भाष्य को एडिट करें
Top