Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 962
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
अ꣣भि꣡ गावो꣢꣯ अधन्विषु꣣रा꣢पो꣣ न꣢ प्र꣣व꣡ता꣢ य꣣तीः꣢ । पु꣣नाना꣡ इन्द्र꣢꣯माशत ॥९६२॥
स्वर सहित पद पाठअभि꣢ । गा꣡वः꣢꣯ । अ꣣धन्विषुः । आ꣡पः꣢꣯ । न । प्र꣣व꣡ता꣢ । य꣣तीः꣢ । पु꣣ना꣢नाः । इ꣡न्द्र꣢꣯म् । आ꣣शत ॥९६२॥
स्वर रहित मन्त्र
अभि गावो अधन्विषुरापो न प्रवता यतीः । पुनाना इन्द्रमाशत ॥९६२॥
स्वर रहित पद पाठ
अभि । गावः । अधन्विषुः । आपः । न । प्रवता । यतीः । पुनानाः । इन्द्रम् । आशत ॥९६२॥
सामवेद - मन्त्र संख्या : 962
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 1; सूक्त » 3; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 1; सूक्त » 3; मन्त्र » 2
Acknowledgment
विषयः - अथ पुनस्तमेव विषयमाह।
पदार्थः -
(प्रवता) प्रवणवता देशेन (यतीः) गच्छन्त्यः, प्रवहन्त्यः (आपः न) उदकानि इव (गावः२) गतिमयाः सक्रियाः ब्रह्मानन्दसोमधाराः (अभि अधन्विषुः) जीवात्मानं प्रति धावन्ति। (पुनानाः) पवित्रतां कुर्वाणाः ताः (इन्द्रम्) जीवात्मानम् (आशत) व्याप्नुवन्ति ॥२॥ अत्रोपमालङ्कारः ॥२॥
भावार्थः - आपो यथा निम्नप्रदेशं प्रति धावन्त्यस्तं पवित्रयन्ति तथैव ब्रह्मानन्दा नम्रं जीवात्मानं प्रति द्रवन्तस्तं पुनन्ति ॥२॥
टिप्पणीः -
१. ऋ० ९।२४।२। २. गावः आदित्यरश्मयः उदकानि सोमरसा गावश्च—इति वि०।