Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 961
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
प्र꣡ सोमा꣢꣯सो अधन्विषुः꣣ प꣡व꣢मानास꣣ इ꣡न्द꣢वः । श्री꣣णाना꣢ अ꣣प्सु꣡ वृ꣢ञ्जते ॥९६१॥
स्वर सहित पद पाठप्र꣢ । सो꣡मा꣢꣯सः । अ꣣धन्विषुः । प꣡व꣢꣯मानासः । इ꣡न्द꣢꣯वः । श्री꣣णानाः꣢ । अ꣣प्सु꣢ । वृ꣣ञ्जते ॥९६१॥
स्वर रहित मन्त्र
प्र सोमासो अधन्विषुः पवमानास इन्दवः । श्रीणाना अप्सु वृञ्जते ॥९६१॥
स्वर रहित पद पाठ
प्र । सोमासः । अधन्विषुः । पवमानासः । इन्दवः । श्रीणानाः । अप्सु । वृञ्जते ॥९६१॥
सामवेद - मन्त्र संख्या : 961
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 1; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 1; सूक्त » 3; मन्त्र » 1
Acknowledgment
विषयः - तत्रादौ ब्रह्मानन्दरूपान् सोमरसान् वर्णयति।
पदार्थः -
(पवमानासः) पवित्रताप्रदायकाः (इन्दवः) दीप्ताः, रसेन क्लेदकाश्च (सोमासः) ब्रह्मानन्दरसाः (अधन्विषुः) जीवात्मानमुपगताः सन्ति। [धन्वतिः गतिकर्मा। निघं० २।१४।] ते (श्रीणानाः२) तं जीवात्मानं परिपचन्तः (अप्सु) तेन क्रियमाणेषु कर्मसु (वृञ्जते) स्वात्मानं परित्यजन्ति, व्याप्नुवन्तीत्यर्थः। [वृजी वर्जने, अदादिः] ॥१॥
भावार्थः - ब्रह्मणः सकाशात् प्राप्तैरानन्दरसैः परिपक्वः पूर्णतां च गतो मनुष्यः शुभान्येव कर्माण्याचरति नाशुभानि ॥१॥
टिप्पणीः -
१. ऋ० ९।२४।१, ‘अ॒प्सु मृ॑ज्जत’ इति पाठः। २. श्रीणानाः श्रीणनं मिश्रणं, मिश्रयमाणाः—इति वि०।