Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 965
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

त्व꣡ꣳ सो꣢म नृ꣣मा꣡द꣢नः꣣ प꣡व꣢स्व चर्षणी꣣धृ꣡तिः꣢ । स꣢स्नि꣣र्यो꣡ अ꣢नु꣣मा꣡द्यः꣢ ॥९६५॥

स्वर सहित पद पाठ

त्वम् । सो꣣म । नृमा꣡द꣢नः । नृ꣣ । मा꣡द꣢꣯नः । प꣡व꣢꣯स्व । च꣣र्षणीधृ꣡तिः꣢ । च꣣र्षणि । धृ꣡तिः꣢꣯ । स꣡स्निः꣢꣯ । यः । अ꣣नुमा꣡द्यः꣢ । अ꣣नु । मा꣡द्यः꣢꣯ ॥९६५॥


स्वर रहित मन्त्र

त्वꣳ सोम नृमादनः पवस्व चर्षणीधृतिः । सस्निर्यो अनुमाद्यः ॥९६५॥


स्वर रहित पद पाठ

त्वम् । सोम । नृमादनः । नृ । मादनः । पवस्व । चर्षणीधृतिः । चर्षणि । धृतिः । सस्निः । यः । अनुमाद्यः । अनु । माद्यः ॥९६५॥

सामवेद - मन्त्र संख्या : 965
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 5
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 1; सूक्त » 3; मन्त्र » 5
Acknowledgment

पदार्थः -
हे (सोम) रसागार, शुभकर्मसु प्रेरक, चन्द्रवदाह्लादक, सर्वान्तर्यामिन् परमपितर्जगदीश ! (नृमादनः) नॄन् मनुष्यान् मादयति हर्षयतीति तथाविध (चर्षणीधृतिः) मनुष्याणां धारयिता (त्वम् पवस्व) अस्मान् पवित्रीकुरु, (यः) यः त्वम् (सस्निः) सर्वथा शुद्धः। [ष्णा शौचे धातोः ‘आदृगमहनजनः किकिनौ लिट् च। अ० ३।२।१७१’ इत्यनेन किन् प्रत्ययः, तस्य च लिड्वत्त्वाद् द्वित्वम्।] (अनुमाद्यः) अनुनयेन प्रसादनीयश्च असि ॥५॥

भावार्थः - यस्मिन् विशुद्धे परमात्मनि कल्मषस्य कणिकापि नास्ति स उपासकान् निर्मलान् कृत्वा पूतेनानन्दरसेन परिप्रीणाति ॥५॥

इस भाष्य को एडिट करें
Top