Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 97
ऋषिः - दीर्घतमा औचथ्यः देवता - अग्निः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम - आग्नेयं काण्डम्
6

पु꣣रु꣡ त्वा꣢ दाशि꣣वा꣡ꣳ वो꣢चे꣣ऽरि꣡र꣢ग्ने꣣ त꣡व꣢ स्वि꣣दा꣢ । तो꣣द꣡स्ये꣢व शर꣣ण꣢꣫ आ म꣣ह꣡स्य꣢ ॥९७॥

स्वर सहित पद पाठ

पु꣣रु꣢ । त्वा꣣ । दाशिवा꣢न् । वो꣣चे । अरिः꣢ । अ꣣ग्ने । त꣡व꣢꣯ । स्वि꣣त् । आ꣢ । तो꣣द꣡स्य꣢ । इ꣣व शरणे꣢ । आ । म꣣ह꣡स्य꣢ ॥९७॥


स्वर रहित मन्त्र

पुरु त्वा दाशिवाꣳ वोचेऽरिरग्ने तव स्विदा । तोदस्येव शरण आ महस्य ॥९७॥


स्वर रहित पद पाठ

पुरु । त्वा । दाशिवान् । वोचे । अरिः । अग्ने । तव । स्वित् । आ । तोदस्य । इव शरणे । आ । महस्य ॥९७॥

सामवेद - मन्त्र संख्या : 97
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 11;
Acknowledgment

पदार्थः -
(दाशिवान्) आत्मसमर्पणं कृतवान्, अहम्। दाशृ दाने धातोर्लिटः क्वसुः। ददाशिवान् इति प्राप्ते द्वित्वाभावश्छान्दसः२। (त्वा) त्वां परमात्मानम् (पुरु) बहु (वोचे३) वच्मि, स्तौमि। हे (अग्ने) तेजोमय जगदीश्वर ! त्वम् (अरिः४) ईश्वरः, समर्थः, असि। निरुक्तमतेन गच्छत्यर्थस्य ऋच्छतेरिदं रूपम्। निरु० ५।७।३५। अहम् (तव स्वित्५) तवैव अस्मि, (आ) त्वं मत्समीपे आगच्छ। अहम् (तोदस्य६ इव) अमृतसलिलेन परिपूर्णस्य कूपस्य इव। तुद व्यथने। तुद्यते खन्यते इति तोदः कूपः। (महस्य) महिमान्वितस्य तव (शरणे) आश्रये (आ) आगतोऽस्मि। उभयत्र आ इत्यत्र उपसर्गश्रुतेर्योग्यक्रियाध्याहारः। सेयं वैदिकी शैली ॥७ यास्काचार्यो मन्त्रमिममेवं व्याचष्टे—तोदः तुद्यतेः। बहु दाश्वांस्त्वाम् अभिह्वयामि। अरिः अमित्रम् ऋच्छतेः, ईश्वरोऽप्यरिरेतस्मादेव। यदन्यदेवत्या अग्नावाहुतयो हूयन्त इत्येतद् दृष्ट्वैवम् अवक्ष्यत् तोदस्येव शरण आ महस्य, तुदस्येव शरणेऽधि महतः। निरु० ५।७।३५ इति ॥१॥ अत्रोपमालङ्कारः ॥१॥

भावार्थः - हे जगत्पते ! हे परमपितः ! अहं तवैवास्मि। त्वां विहाय क्वान्यत्र गच्छेयम्। तवैव गुणान् गायामि, तुभ्यमेवात्मानं समर्पये। स्वच्छसलिलेन पूर्णः कूप इव त्वम् अमृतमयेनान्दरसेन परिपूर्णोऽसि। तस्मादानन्दरसात् कतिपयान् रसबिन्दून् ममापि हृदये प्रोक्ष्य मां रससिक्तं कुरु। अहं तव शरणागतोऽस्मि ॥१॥

इस भाष्य को एडिट करें
Top