Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 970
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
8
प꣢रि꣣ वि꣡श्वा꣢नि꣣ चे꣡त꣢सा मृ꣣ज्य꣢से꣣ प꣡व꣢से म꣣ती꣡ । स꣡ नः꣢ सोम꣣ श्र꣡वो꣢ विदः ॥९७०॥
स्वर सहित पद पाठप꣡रि꣢꣯ । वि꣡श्वा꣢꣯नि । चे꣡त꣢꣯सा । मृ꣣ज्य꣡से꣢ । प꣡व꣢꣯से । म꣣ती꣢ । सः । नः꣣ । सोम । श्र꣡वः꣢꣯ । वि꣣दः ॥९७०॥
स्वर रहित मन्त्र
परि विश्वानि चेतसा मृज्यसे पवसे मती । स नः सोम श्रवो विदः ॥९७०॥
स्वर रहित पद पाठ
परि । विश्वानि । चेतसा । मृज्यसे । पवसे । मती । सः । नः । सोम । श्रवः । विदः ॥९७०॥
सामवेद - मन्त्र संख्या : 970
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 4; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 2; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 4; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 2; सूक्त » 1; मन्त्र » 3
Acknowledgment
विषयः - अथ परमात्मानं प्रार्थयते।
पदार्थः -
हे परमात्मन् ! (विश्वानि) सर्वाणि सांसारिकभोगविलासादीनि (परि) परिहृत्य त्वमेव (चेतसा) चित्तेन (मती) मत्या च। [अत्र ‘सुपां सुलुक्०’। अ० ७।१।३९ इत्यनेन तृतीयैकवचने पूर्वसवर्णदीर्घः।] (मृज्यसे) अलङ्क्रियसे, यतः त्वम् (नः) अस्मान् (पवसे) पुनासि। हे (सोम) परमैश्वर्यवन् ! (सः) असौ त्वम् (नः) अस्मान् (श्रवः) यशः (विदः) लम्भय ॥३॥
भावार्थः - यदा मनुष्यो बाह्यविषयेभ्यो मनः प्रतिनिवर्त्य परमात्मन्येव च केन्द्रीकृत्य तं ध्यायति तदा स तस्मै नितान्तं पावित्र्यमविनश्वरं यशश्च प्रयच्छति ॥३॥
टिप्पणीः -
१. ऋ० ९।२०।३ ‘मृज्यसे’ इत्यत्र ‘मृ॒शसे॒’।