Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 973
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

स꣡ वह्नि꣢꣯र꣣प्सु꣢ दु꣣ष्ट꣡रो꣢ मृ꣣ज्य꣡मा꣢नो꣣ ग꣡भ꣢स्त्योः । सो꣡म꣢श्च꣣मू꣡षु꣢ सीदति ॥९७३॥

स्वर सहित पद पाठ

सः꣢ । व꣡ह्निः꣢꣯ । अ꣣प्सु꣢ । दु꣣ष्ट꣡रः꣢ । दुः꣣ । त꣡रः꣢꣯ । मृ꣣ज्य꣡मा꣢नः । ग꣡भ꣢꣯स्त्योः । सो꣡मः꣢꣯ । च꣣मू꣡षु꣢ । सी꣣दति ॥९७३॥


स्वर रहित मन्त्र

स वह्निरप्सु दुष्टरो मृज्यमानो गभस्त्योः । सोमश्चमूषु सीदति ॥९७३॥


स्वर रहित पद पाठ

सः । वह्निः । अप्सु । दुष्टरः । दुः । तरः । मृज्यमानः । गभस्त्योः । सोमः । चमूषु । सीदति ॥९७३॥

सामवेद - मन्त्र संख्या : 973
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 4; मन्त्र » 6
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 2; सूक्त » 1; मन्त्र » 6
Acknowledgment

पदार्थः -
(वह्निः) जगद्भारस्य वोढा, (दुष्टरः) दुरतिक्रमः, (मृज्यमानः) सद्गुणकर्मस्वभावैः अलङ्क्रियमाणः (स सोमः) असौ जगत्पतिः परमेश्वरः (अप्सु) नदनदीसमुद्रपर्जन्यादिवर्तिषु उदकेषु, (गभस्त्योः)सौम्यतैजसरूपयोः चन्द्रसूर्यकिरणयोः। [गभस्तिरिति रश्मिनामसु पठितम्। निघं० २।४।] (चमूषु) द्यावापृथिव्योरन्तराले विद्यमानेषु विभिन्नेषु लोकेषु चापि [चम्वौ इति द्यावापृथिव्योर्नाम। निघं० ३।३०।] (सीदति) निषण्णोऽस्ति ॥६॥

भावार्थः - अगणितग्रहोपग्रहसूर्यनक्षत्रादियुते सुविस्तीर्णे विश्वब्रह्माण्डेऽस्मिन् कणपरिमितमपि स्थानं न विद्यते यत्र परमेश्वरो नास्ति ॥६॥

इस भाष्य को एडिट करें
Top