Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 972
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
त्व꣡ꣳ राजे꣢꣯व सुव्र꣣तो꣡ गिरः꣢꣯ सो꣣मा꣡वि꣢वेशिथ । पु꣣नानो꣡ व꣢ह्ने अद्भुत ॥९७२॥
स्वर सहित पद पाठत्व꣢म् । रा꣡जा꣢꣯ । इ꣣व । सुव्रतः꣢ । सु꣣ । व्रतः꣢ । गि꣡रः꣢꣯ । सो꣣म । आ꣢ । वि꣣वेशिथ । पुनानः꣢ । व꣣ह्ने । अद्भुत । अत् । भुत ॥९७२॥
स्वर रहित मन्त्र
त्वꣳ राजेव सुव्रतो गिरः सोमाविवेशिथ । पुनानो वह्ने अद्भुत ॥९७२॥
स्वर रहित पद पाठ
त्वम् । राजा । इव । सुव्रतः । सु । व्रतः । गिरः । सोम । आ । विवेशिथ । पुनानः । वह्ने । अद्भुत । अत् । भुत ॥९७२॥
सामवेद - मन्त्र संख्या : 972
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 4; मन्त्र » 5
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 2; सूक्त » 1; मन्त्र » 5
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 4; मन्त्र » 5
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 2; सूक्त » 1; मन्त्र » 5
Acknowledgment
विषयः - अथ परमात्मा कीदृश इति वर्णयति।
पदार्थः -
हे (वह्ने) जगद्भारस्य वोढः (अद्भुत) आश्चर्यगुणकर्मस्वभाव (सोम) सर्वोत्पादक, सद्भावप्रेरक, ऐश्वर्यशालिन् जगदीश ! (पुनानः) हृदयानि पवित्रीकुर्वन् (त्वम् राजा इव) सम्राडिव (सुव्रतः) सुकर्मा असि। [व्रतमिति कर्मनाम। निघं० २।१।] किञ्च त्वं (गिरः) वेदवाचः (आविवेशिथ) प्रविष्टोऽसि, वेदवाचस्त्वामेवोपास्यत्वेन वर्णयन्तीत्यर्थः, [“यस्तन्न वेद॒ किमृ॒चा क॑रिष्यति॒” ऋ० १।१६४।३९ इति श्रुतेः] ॥५॥ अत्रोपमालङ्कारः ॥५॥
भावार्थः - यथा कश्चिद् राजा राष्ट्रोन्नतिकराण्येव कार्याणि करोति तथैव विश्वब्रह्माण्डाधीश्वरस्य परमात्मनः सर्वाणि जगदुत्पत्तिस्थितिप्रलयादीनि कर्माणि शुभानि निःस्वार्थानि परोपकारकराणि च भवन्ति ॥५॥
टिप्पणीः -
१. ऋ० ९।२०।५।