Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 976
ऋषिः - अवत्सारः काश्यपः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
3
इ꣢न्दो꣣ य꣢था꣣ त꣢व꣣ स्त꣢वो꣣ य꣡था꣢ ते जा꣣त꣡मन्ध꣢꣯सः । नि꣢ ब꣣र्हि꣡षि꣢ प्रि꣣ये꣡ स꣢दः ॥९७६॥
स्वर सहित पद पाठइ꣡न्दो꣢꣯ । य꣡था꣢꣯ । त꣡व꣢꣯ । स्त꣡वः꣢꣯ । य꣡था꣢꣯ । ते꣣ । जात꣢म् । अ꣡न्ध꣢꣯सः । नि । ब꣣र्हि꣡षि꣢ । प्रि꣣ये꣢ । स꣣दः ॥९७६॥
स्वर रहित मन्त्र
इन्दो यथा तव स्तवो यथा ते जातमन्धसः । नि बर्हिषि प्रिये सदः ॥९७६॥
स्वर रहित पद पाठ
इन्दो । यथा । तव । स्तवः । यथा । ते । जातम् । अन्धसः । नि । बर्हिषि । प्रिये । सदः ॥९७६॥
सामवेद - मन्त्र संख्या : 976
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 5; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 2; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 5; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 2; सूक्त » 2; मन्त्र » 2
Acknowledgment
विषयः - अथ परमात्मनः स्तुतिपूर्वकं तं प्रार्थयते।
पदार्थः -
हे (इन्दो) चन्द्रवदाह्लादक प्रेममय प्रभो ! (यथा) यादृशो महान् (तव) त्वदीयः (स्तवः) स्तुतिः महिमा च वर्तते (यथा) यादृङ् महच्च (ते) तव (अन्धसः) आनन्दरसस्य (जातम्) समूहो (विद्यते), तथा तादृगेव (नि सदः) निषीद ॥२॥
भावार्थः - स्वमहिमानुरूपं महान् रसमयो जगदीश्वरोऽस्मान् प्राप्यानन्दरसार्द्रान् कुर्यात् ॥२॥
टिप्पणीः -
१. ऋ० ९।५५।२।