Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 977
ऋषिः - अवत्सारः काश्यपः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

उ꣣त꣡ नो꣢ गो꣣वि꣡द꣢श्व꣣वि꣡त्पव꣢꣯स्व सो꣣मा꣡न्ध꣢सा । म꣣क्षू꣡त꣢मेभि꣣र꣡ह꣢भिः ॥९७७॥

स्वर सहित पद पाठ

उत꣢ । नः꣣ । गोवि꣢त् । गो꣣ । वि꣢त् । अ꣣श्ववि꣢त् । अ꣣श्व । वि꣢त् । प꣡व꣢꣯स्व । सो꣣म । अ꣡न्ध꣢꣯सा । म꣣क्षू꣡त꣢मेभिः । अ꣡ह꣢꣯भिः । अ । ह꣣भिः ॥९७७॥


स्वर रहित मन्त्र

उत नो गोविदश्ववित्पवस्व सोमान्धसा । मक्षूतमेभिरहभिः ॥९७७॥


स्वर रहित पद पाठ

उत । नः । गोवित् । गो । वित् । अश्ववित् । अश्व । वित् । पवस्व । सोम । अन्धसा । मक्षूतमेभिः । अहभिः । अ । हभिः ॥९७७॥

सामवेद - मन्त्र संख्या : 977
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 5; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 2; सूक्त » 2; मन्त्र » 3
Acknowledgment

पदार्थः -
हे (सोम) सर्वैश्वर्यसम्पन्न राजाधिराज परमात्मन् ! (उत) अपि च, त्वम् (अन्धसा) आनन्दरसेन सह (गोवित्) धेनूनां प्रापयिता, प्राणबलानां वा प्रापयिता सन् (मक्षूतमेभिः अहभिः) शीघ्रतमैः दिवसैः, सद्य एवेति भावः (नः) अस्मान् (पवस्व) प्राप्नुहि ॥३॥

भावार्थः - जगदीश्वरोऽस्मान् पुरुषार्थिनो विधाय दिव्यसम्पदा भौतिकसम्पदा च परिपूर्णान् करोतु ॥३॥

इस भाष्य को एडिट करें
Top