Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 978
ऋषिः - अवत्सारः काश्यपः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

यो꣢ जि꣣ना꣢ति꣣ न꣡ जीय꣢꣯ते꣣ ह꣢न्ति꣣ श꣡त्रु꣢म꣣भी꣡त्य꣢ । स꣡ प꣢वस्व सहस्रजित् ॥९७८॥

स्वर सहित पद पाठ

यः꣢ । जि꣣ना꣡ति꣢ । न । जी꣡य꣢꣯ते । ह꣡न्ति꣢꣯ । श꣡त्रु꣢꣯म् । अ꣣भी꣡त्य꣢ । अ꣣भि । इ꣡त्य꣢꣯ । सः । पव꣣स्व । सहस्रजित् । सहस्र । जित् ॥९७८॥


स्वर रहित मन्त्र

यो जिनाति न जीयते हन्ति शत्रुमभीत्य । स पवस्व सहस्रजित् ॥९७८॥


स्वर रहित पद पाठ

यः । जिनाति । न । जीयते । हन्ति । शत्रुम् । अभीत्य । अभि । इत्य । सः । पवस्व । सहस्रजित् । सहस्र । जित् ॥९७८॥

सामवेद - मन्त्र संख्या : 978
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 5; मन्त्र » 4
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 2; सूक्त » 2; मन्त्र » 4
Acknowledgment

पदार्थः -
हे पवमान सोम क्रियाशील जीवात्मन् ! (यः) यो भवान् (जिनाति) विघ्नान् विपदो वा विनाशयति। [ज्या वयोहानौ, क्र्यादिः।] (न जीयते) केनापि न पराजीयते, प्रत्युत (अभीत्य) आक्रम्य (शत्रुम्) वैरिणं कामक्रोधादिकम् (हन्ति) मारयति, (सः) असौ (सहस्रजित्) सहस्राणाम् आन्तराणां बाह्यानां च सम्पदां विजेता सन् त्वम् (पवस्व) प्रगतिं कुरु ॥४॥

भावार्थः - परमेश्वरस्योपासकस्तत्सख्यं प्राप्य प्रचण्डानपि बाह्यानान्तरांश्च रिपून् विजेतुं क्षमते ॥४॥

इस भाष्य को एडिट करें
Top