Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 987
ऋषिः - उरुचक्रिरात्रेयः
देवता - मित्रावरुणौ
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
3
पा꣣तं꣡ नो꣢ मित्रा पा꣣यु꣡भि꣢रु꣣त꣡ त्रा꣢येथाꣳ सुत्रा꣣त्रा꣢ । सा꣣ह्या꣢म꣣ द꣡स्यू꣢न् त꣣नू꣡भिः꣢ ॥९८७॥
स्वर सहित पद पाठपात꣢म् । नः꣣ । मित्रा । मि । त्रा । पायु꣡भिः꣢ । उ꣣त꣢ । त्रा꣣येथाम् । सु꣣त्रात्रा꣢ । सु꣣ । त्रात्रा꣢ । सा꣣ह्या꣡म꣢ । द꣡स्यू꣢꣯न् । त꣣नू꣡भिः꣢ ॥९८७॥
स्वर रहित मन्त्र
पातं नो मित्रा पायुभिरुत त्रायेथाꣳ सुत्रात्रा । साह्याम दस्यून् तनूभिः ॥९८७॥
स्वर रहित पद पाठ
पातम् । नः । मित्रा । मि । त्रा । पायुभिः । उत । त्रायेथाम् । सुत्रात्रा । सु । त्रात्रा । साह्याम । दस्यून् । तनूभिः ॥९८७॥
सामवेद - मन्त्र संख्या : 987
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 8; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 3; सूक्त » 2; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 8; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 3; सूक्त » 2; मन्त्र » 3
Acknowledgment
विषयः - अथ पुनरपि तौ प्रार्थयते।
पदार्थः -
हे (मित्रा) सुहृद्भूतौ मित्रावरुणौ परमात्मजीवात्मानौ राष्ट्रपतिप्रधानमन्त्रिणौ अध्यापकोपदेशकौ प्राणापानौ वा ! युवाम् (पायुभिः) पालनसाधनैः [पान्ति एभिरिति पायवः। पा रक्षणे धातोः ‘कृवापा०’। उ० १।१ इत्युण् प्रत्ययः।] (नः) अस्मान् (पातम्) पालयतम्। (उत) अपि च (सुत्रात्रा) सुत्राणकर्त्रा गुणगणेन (त्रायेथाम्) रक्षतम्। युवयोः साहाय्येन वयम् (तनूभिः) शरीरैः (दस्यून्) क्षयकारिणः आन्तरान् बाह्यांश्च शत्रून् (सासह्याम) पाराजयेमहि ॥३॥२
भावार्थः - परमात्मजीवात्मनो राष्ट्रपतिप्रधानमन्त्रिणोरध्यापकोपदेशकयोः प्राणापानयोश्च साहाय्यं प्राप्य पुरुषार्थं कृत्वा वयं सदैव सुरक्षिता भवितुं शक्नुमः ॥३॥
टिप्पणीः -
१. ऋ० ५।७०।३, ‘मित्रा’ इत्यत्र ‘रुद्रा’, ‘सासह्याम’ इत्यत्र ‘तु॒र्य्याम॒’ इति पाठः। २. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं सभासेनेशविषये व्याख्यातः।