Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 986
ऋषिः - उरुचक्रिरात्रेयः देवता - मित्रावरुणौ छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

ता꣡ वा꣢ꣳ स꣣म्य꣡ग꣢द्रुह्वा꣣णे꣡ष꣢मश्याम꣣ धा꣡म꣢ च । व꣣यं꣡ वां꣢ मित्रा स्याम ॥९८६॥

स्वर सहित पद पाठ

ता । वा꣣म् । सम्य꣢क् । अ꣣द्रुह्वाणा । अ । द्रुह्वाणा । इ꣡ष꣢꣯म् । अ꣡श्याम । धा꣡म꣢꣯ । च꣣ । वय꣢म् । वा꣣म् । मित्रा । मि । त्रा । स्याम ॥९८६॥


स्वर रहित मन्त्र

ता वाꣳ सम्यगद्रुह्वाणेषमश्याम धाम च । वयं वां मित्रा स्याम ॥९८६॥


स्वर रहित पद पाठ

ता । वाम् । सम्यक् । अद्रुह्वाणा । अ । द्रुह्वाणा । इषम् । अश्याम । धाम । च । वयम् । वाम् । मित्रा । मि । त्रा । स्याम ॥९८६॥

सामवेद - मन्त्र संख्या : 986
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 8; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 3; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थः -
हे (अद्रुह्वाणा) अद्रुह्यन्तौ मित्रावरुणौ परमात्मजीवात्मानौ राष्ट्रपतिप्रधानमन्त्रिणौ अध्यापकोपदेशकौ प्राणापानौ वा ! (ता वाम्) तौ युवाम्, वयं स्तुमः इति शेषः। युवयोः आनुकूल्येन वयम् (इषम्) अन्नरसधनविज्ञानादिकम् (धाम च) तेजश्च (सम्यक्) समुचितप्रकारेण (अश्याम) प्राप्नुयाम। हे (मित्रा) मित्रौ सर्वेषां सुहृद्भूतौ ! (वयम्) स्तोतारः (वाम्) युवयोः (स्याम) भवेम ॥२॥२

भावार्थः - परमात्मजीवात्मानौ राष्ट्रपतिप्रधानमन्त्रिणौ अध्यापकोपदेशकौ प्राणापानौ च यथायोग्यमुपयुक्तौ महान्तमुपकारं जनयतः ॥२॥

इस भाष्य को एडिट करें
Top