Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 992
ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्राग्नी छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

या꣢ वा꣣ꣳ स꣡न्ति꣢ पुरु꣣स्पृ꣡हो꣢ नि꣣यु꣡तो꣢ दा꣣शु꣡षे꣣ नरा । इ꣡न्द्रा꣢ग्नी꣣ ता꣢भि꣣रा꣡ ग꣢तम् ॥९९२॥

स्वर सहित पद पाठ

याः । वा꣣म् । स꣡न्ति꣢꣯ । पु꣣रुस्पृ꣡हः꣢ । पु꣣रु । स्पृ꣡हः꣢꣯ । नि꣣यु꣡तः꣢ । नि꣣ । यु꣡तः꣢꣯ । दा꣣शु꣡षे꣢ । न꣣रा । इ꣡न्द्रा꣢꣯ग्नी । इ꣡न्द्र꣢꣯ । अ꣣ग्नीइ꣡ति꣢ । ता꣡भिः꣢꣯ । आ । ग꣣तम् ॥९९२॥


स्वर रहित मन्त्र

या वाꣳ सन्ति पुरुस्पृहो नियुतो दाशुषे नरा । इन्द्राग्नी ताभिरा गतम् ॥९९२॥


स्वर रहित पद पाठ

याः । वाम् । सन्ति । पुरुस्पृहः । पुरु । स्पृहः । नियुतः । नि । युतः । दाशुषे । नरा । इन्द्राग्नी । इन्द्र । अग्नीइति । ताभिः । आ । गतम् ॥९९२॥

सामवेद - मन्त्र संख्या : 992
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 10; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 3; सूक्त » 4; मन्त्र » 2
Acknowledgment

पदार्थः -
हे (नरा) नरौ नेतारौ (इन्द्राग्नी) आत्ममनसी नृपतिसेनापती वा ! (दाशुषे) दत्तवते त्यागशीलाय परोपकारिणे जनाय (याः वाम्) युवयोः (नियुतः) लक्षसंख्यकाः (पुरुस्पृहः) बहुमहत्त्वाकाङ्क्षिण्यः उदात्ताः कामनाः सन्ति (ताभिः) उदात्ताभिः कामनाभिः युवाम् (आ गतम्२) आगच्छतम् ॥२॥३

भावार्थः - देहे मनुष्यस्यान्तरात्मा मनश्च राष्ट्रे राजा सेनाध्यक्षश्च परहितकारिणमेव जनमुपकुर्वन्ति न स्वार्थपङ्कलिप्तम् ॥२॥

इस भाष्य को एडिट करें
Top