Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 996
ऋषिः - भृगुर्वारुणिर्जमदग्निर्भार्गवो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

इ꣡षं꣢ तो꣣का꣡य꣢ नो꣣ द꣡ध꣢द꣣स्म꣡भ्य꣢ꣳ सोम वि꣣श्व꣡तः꣢ । आ꣡ प꣢वस्व सह꣣स्रि꣡ण꣢म् ॥९९६॥

स्वर सहित पद पाठ

इ꣡ष꣢꣯म् । तो꣣का꣡य꣢ । नः꣣ । द꣡ध꣢꣯त् । अ꣣स्म꣢भ्य꣢म् । सो꣣म । विश्व꣡तः꣢ । आ । प꣣वस्व । सहस्रि꣡ण꣢म् ॥९९६॥


स्वर रहित मन्त्र

इषं तोकाय नो दधदस्मभ्यꣳ सोम विश्वतः । आ पवस्व सहस्रिणम् ॥९९६॥


स्वर रहित पद पाठ

इषम् । तोकाय । नः । दधत् । अस्मभ्यम् । सोम । विश्वतः । आ । पवस्व । सहस्रिणम् ॥९९६॥

सामवेद - मन्त्र संख्या : 996
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 11; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 4; सूक्त » 1; मन्त्र » 3
Acknowledgment

पदार्थः -
हे (सोम) परमैश्वर्यशालिन् जगदीश्वर ! त्वम् (नः) अस्माकम् (तोकाय) सन्तानाय (अस्मभ्यम्)अस्मदर्थं च (विश्वतः) सर्वतः (इषम्) अन्नं विज्ञानं च (दधत्) प्रयच्छन् सन् (सहस्रिणम्) सहस्रसंख्याकम् आन्तरं बाह्यं च ऐश्वर्यम् (आ पवस्व) आ प्रापय ॥३॥

भावार्थः - परमेश्वरस्य ध्यानेन बलं प्राप्य मनुष्यः सर्वमपि दिव्यं भौतिकं चैश्वर्यं लब्धुं शक्नोति ॥३॥

इस भाष्य को एडिट करें
Top