Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 997
ऋषिः - सप्तर्षयः देवता - पवमानः सोमः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम -
3

सो꣡म꣢ उ ष्वा꣣णः꣢ सो꣣तृ꣢भि꣣र꣢धि꣣ ष्णु꣢भि꣣र꣡वी꣢नाम् । अ꣡श्व꣢येव ह꣣रि꣡ता꣢ याति꣣ धा꣡र꣢या म꣣न्द्र꣡या꣢ याति꣣ धा꣡र꣢या ॥९९७॥

स्वर सहित पद पाठ

सो꣡म꣢꣯ । उ꣣ । स्वानः꣢ । सो꣣तृ꣡भिः꣢ । अ꣡धि꣢꣯ । स्नु꣡भिः꣢꣯ । अ꣡वी꣢꣯नाम् । अ꣡श्व꣢꣯या । इ꣣व । हरि꣡ता꣢ । या꣣ति । धा꣡र꣢꣯या । म꣣न्द्र꣡या꣢ । या꣣ति । धा꣡र꣢꣯या ॥९९७॥


स्वर रहित मन्त्र

सोम उ ष्वाणः सोतृभिरधि ष्णुभिरवीनाम् । अश्वयेव हरिता याति धारया मन्द्रया याति धारया ॥९९७॥


स्वर रहित पद पाठ

सोम । उ । स्वानः । सोतृभिः । अधि । स्नुभिः । अवीनाम् । अश्वया । इव । हरिता । याति । धारया । मन्द्रया । याति । धारया ॥९९७॥

सामवेद - मन्त्र संख्या : 997
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 12; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 4; सूक्त » 2; मन्त्र » 1
Acknowledgment

पदार्थः -
(सोतृभिः) गोदुग्धक्षारकैः (अवीनां स्नुभिः) अविबालनिर्मितैः सानुवत् प्रततैः वस्त्रैः। [मांस्पृत्स्नूनामुपसंख्यानम्। अ० ६।१।६३ वा० इत्यनेन सानुशब्दस्य स्नुरादेशः।] (अधिष्वाणः) अधिषूयमाणः अधिक्षार्यमाणः (सोमः) गवां पयः२ (अश्वया इव) आशुगामिन्या नद्या इव (हरिता) शीघ्रया (धारया) प्रवाहसन्तत्या (याति) कटाहेषु क्षरति, (मन्द्रया) आनन्दप्रदया (धारया) प्रवाहसन्तत्या (याति) कटाहेषु क्षरति ॥१॥ अत्रोपमालङ्कारः। ‘याति धारया’ इत्यस्य पुनरुक्तौ च लाटानुप्रासः ॥१॥

भावार्थः - यस्मिन् देशे गोदुग्धस्य धाराः प्रवहन्ति तत्रत्या जना हृष्टाः पुष्टा बलीयांसः सन्तो दीर्घायुष्यं लभमानाः सुचिरं यज्ञादिकर्माणि कुर्वन्तोऽध्यात्मजीवनं च यापयन्तो मोदन्ते ॥१॥

इस भाष्य को एडिट करें
Top