Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1553
ऋषिः - भर्गः प्रागाथः देवता - अग्निः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
2

अ꣢च्छा꣣ हि꣡ त्वा꣢ सहसः सूनो अङ्गिरः꣣ स्रु꣢च꣣श्च꣡र꣢न्त्यध्व꣣रे꣢ । ऊ꣣र्जो꣡ नपा꣢꣯तं घृ꣣त꣡के꣢शमीमहे꣣ऽग्निं꣢ य꣣ज्ञे꣡षु꣢ पू꣣र्व्य꣢म् ॥१५५३॥

स्वर सहित पद पाठ

अ꣡च्छ꣢꣯ । हि । त्वा꣣ । सहसः । सूनो । अङ्गिरः । स्रु꣡चः꣢꣯ । च꣡र꣢꣯न्ति । अ꣣ध्वरे꣢ । ऊ꣣र्जः꣢ । न꣡पा꣢꣯तम् । घृ꣣त꣡के꣢शम् । घृ꣣त꣢ । के꣣शम् । ईमहे । अग्नि꣢म् । य꣣ज्ञे꣡षु꣢ । पू꣣र्व्य꣢म् ॥१५५३॥


स्वर रहित मन्त्र

अच्छा हि त्वा सहसः सूनो अङ्गिरः स्रुचश्चरन्त्यध्वरे । ऊर्जो नपातं घृतकेशमीमहेऽग्निं यज्ञेषु पूर्व्यम् ॥१५५३॥


स्वर रहित पद पाठ

अच्छ । हि । त्वा । सहसः । सूनो । अङ्गिरः । स्रुचः । चरन्ति । अध्वरे । ऊर्जः । नपातम् । घृतकेशम् । घृत । केशम् । ईमहे । अग्निम् । यज्ञेषु । पूर्व्यम् ॥१५५३॥

सामवेद - मन्त्र संख्या : 1553
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 7; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 2; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थ -
(सहसः सूनो-अङ्गिरः) हे बल के उत्पादक अङ्गों के रसरूप रसयिता परमात्मन्! (त्वा-अच्छा हि) तुझे लक्ष्य कर (अध्वरे) अध्यात्मयज्ञ में (स्रुचः-चरन्ति) स्तुतिवाणियाँ चलती हैं—होती रहती हैं१० (ऊर्जः-नपातम्) अध्यात्मबल के न गिराने वाले—(घृतकेशम्) दीप्त रश्मि वाले११ (पूर्व्यम्) शाश्वतिक—(अग्निम्) प्रकाशस्वरूप परमात्मा को (ईमहे) चाहते हैं—प्रार्थित करते हैं॥२॥

विशेष - <br>

इस भाष्य को एडिट करें
Top