ऋग्वेद - मण्डल 1/ सूक्त 119/ मन्त्र 10
यु॒वं पे॒दवे॑ पुरु॒वार॑मश्विना स्पृ॒धां श्वे॒तं त॑रु॒तारं॑ दुवस्यथः। शर्यै॑र॒भिद्युं॒ पृत॑नासु दु॒ष्टरं॑ च॒र्कृत्य॒मिन्द्र॑मिव चर्षणी॒सह॑म् ॥
स्वर सहित पद पाठयु॒वम् । पे॒दवे॑ । पु॒रु॒ऽवार॑म् । अ॒श्वि॒ना॒ । स्पृ॒धाम् । श्वे॒तम् । त॒रु॒तार॑म् । दु॒व॒स्य॒थः॒ । शर्यैः॑ । अ॒भिऽद्यु॑म् । पृत॑नासु । दु॒स्तर॑म् । च॒र्कृत्य॑म् । इन्द्र॑म्ऽइव । च॒र्ष॒णि॒ऽसह॑म् ॥
स्वर रहित मन्त्र
युवं पेदवे पुरुवारमश्विना स्पृधां श्वेतं तरुतारं दुवस्यथः। शर्यैरभिद्युं पृतनासु दुष्टरं चर्कृत्यमिन्द्रमिव चर्षणीसहम् ॥
स्वर रहित पद पाठयुवम्। पेदवे। पुरुऽवारम्। अश्विना। स्पृधाम्। श्वेतम्। तरुतारम्। दुवस्यथः। शर्यैः। अभिऽद्युम्। पृतनासु। दुस्तरम्। चर्कृत्यम्। इन्द्रम्ऽइव। चर्षणिऽसहम् ॥ १.११९.१०
ऋग्वेद - मण्डल » 1; सूक्त » 119; मन्त्र » 10
अष्टक » 1; अध्याय » 8; वर्ग » 21; मन्त्र » 5
अष्टक » 1; अध्याय » 8; वर्ग » 21; मन्त्र » 5
विषयः - अथ तडित्तारविद्योपदेशः क्रियते ।
अन्वयः - हे अश्विना युवं पेदवे स्पृधां पृतनासु चर्कृत्यं श्वेतं पुरुवारं दुष्टरं चर्षणीसहं शर्य्यैरभिद्युमिन्द्रमिव तरुतारं दुवस्यथः ॥ १० ॥
पदार्थः -
(युवम्) युवाम् (पेदवे) प्राप्तुं गन्तुं वा (पुरुवारम्) पुरूणि बहूनि वरितुं योग्यानि कर्माणि यस्मात्तम् (अश्विना) सर्वविद्याव्याप्तिमन्तौ सभासेनेशौ (स्पृधाम्) शत्रुभिः सह स्पर्धमानाम् (श्वेतम्) सततं गन्तुं प्रवृद्धम् (तरुतारम्) शब्दान् संतारकं प्लावकं वा ताराख्यं व्यवहारम् (दुवस्यथः) सेवेथाम् (शर्य्यैः) हिंसितुं ताडितुमर्हैर्यन्त्रैर्युक्तम् (अभिद्युम्) अभितो दिवो विद्युद्योगप्रकाशा यस्मिँस्तम् (पृतनासु) सेनासु (दुष्टरम्) शत्रुभिर्दुःखेनोल्लङ्घयितुं शक्यम् (चर्कृत्यम्) भृशं कर्त्तुं योग्यम् (इन्द्रमिव) सूर्य्यप्रकाशमिव सद्यो गन्तारम् (चर्षणीसहम्) चर्षणयो मनुष्याः शत्रून् सहन्ते येन तम् ॥ १० ॥
भावार्थः - अत्रोपमालङ्कारः। यथा मनुष्यैस्तडिद्विद्ययाऽभीष्टानि कार्य्याणि संसाध्यन्ते तथैव परिव्राट्सङ्गेन सर्वा विद्याः प्राप्य धर्मादिकार्य्याणि कर्त्तुं प्रभूयन्ते। एताभ्यामेव व्यवहारपरमार्थसिद्धिः कर्त्तुं शक्या तस्मात्प्रयत्नेन तडिद्विद्याऽवश्यं साधनीया ॥ १० ॥ ।अत्र राजप्रजापरिव्राड्विद्याविचारानुष्ठानोक्तत्वादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिरस्तीति बोध्यम् ॥इति २१ वर्गः ११९ सूक्तं च समाप्तम् ॥
इस भाष्य को एडिट करें